आदिपर्व

अध्यायः १२१

Adi Parva (Sanskrit) · Adhyaya 121
अक्षर का आकार

वैशंपायन उवाच।

सत्वरूपगुणोपेता धर्मारामा महाव्रता।
दुहिता कुन्तिभोजस्य पृथा पृथुललोचना।।

तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम्।
व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम्।।

ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान्।
पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम।।

ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी।
ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम्।।

सिंहदर्पं महोरस्कं वृषभाक्षं महाबलम्।
आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः।।

तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम्।
तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा।।

पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत्।
ततः कामपरीताङ्गी सकृत्प्रचलमानसा।।

व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत्।
तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः।।

यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा।
ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः।।

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः।
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव।।

कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः।
कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम्।
स्वपुरं प्रेषयामास स राजा कुरुसत्तम।।

ततो बलेन महता नानाध्वजपताकिना।
स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः।।

संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः।
न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकविंशत्यधिकशततमोऽध्यायः।। 121 ।।