आदिपर्व
अध्यायः १२०
वैशंपायन उवाच।
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि।।
पितृष्वस्रीयाय स तामनपत्याय भारत।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक्।।
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने।।
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम्।।
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्।।
`दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा।
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा।।
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम्'।
यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः।।
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति।।
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता।
कन्या सती देवमर्कमाजुहाव यशस्विनी।।
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम्।।
सा ददर्श तमायान्तं भास्करं लोकभावनम्।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्।।
`साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः।
आदित्य उवाच।
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम्।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते।।
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने।
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम्।।
शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते।
नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति।।
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति।
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति।।
वैशंपायन उवाच।
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह।
कन्या पितृसा चाहं पुरुषार्थो न चैव मे।।'
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन्।
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो।।
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये।
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः।।
सूर्य उवाच।
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ।
संत्यज्य भयमेवेह क्रियतां सङ्गमो मम।।
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे।
वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः।।
`यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम्।
यदि मामवजानासि ऋषिः स न भविष्यति।।
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा'।।
वैशंपायन उवाच।
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत।।
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ।।?
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत।।
`कुन्त्युवाच।
प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे।
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम्।।
आदित्य उवाच।
व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे।
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि।।
वैशंपायन उवाच।
एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा।
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना।।
प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः।'
तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः।।
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः।।
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः।
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः।।
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः।
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा।।
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्।
गूहमानापचारं सा बन्धुपक्षभयात्तदा।।
मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम्।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्।।
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः।।
नामधेयं च चक्राते तस्य बालस्य तावुभौ।
वसुना सह जातोऽयं वसुषेणो भवत्विति।।
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्।।
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः।
नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले।।
`ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत्।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम।।
प्रभातायां रजन्यां त्वामागमिष्यति वासवः।
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति।।
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम।।
कर्ण उवाच।
शक्रो मां विप्ररूपेण यदि वै याचते द्विज।
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः।।
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम्।
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे।।
सूर्य उवाच।
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति।
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम्।।
वैशंपायन उवाच।
एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा।।
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः।।
उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम्।
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः।।
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा।
अहो साहसमित्याह मनसा वासवो हसन्।।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति।।
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि।
कर्ण उवाच।
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम्।।
वैशंपायन उवाच।
शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत्।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।।
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति।
हत्वैकं समरे शत्रुं ततो मामागमिष्यति।
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै।।
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत्।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि विंशत्यधिकशततमोऽध्यायः।। 120 ।।