आदिपर्व

अध्यायः ११९

Adi Parva (Sanskrit) · Adhyaya 119
अक्षर का आकार

भीष्म उवाच।

गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्।
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्।।

रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः।
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्।।

मया च सत्यवत्या च कृष्णेन च महात्मना।
समवस्थापित भूयो युष्मासु कुलतन्तुषु।।

तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा।
तथा मया विधातव्यं त्वया चैव न संशयः।।

श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च।।

कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः।
उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः।।

मन्ये वरयितव्यास्ता इत्यहं धीमतां वर।
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे।।

विदुर उवाच।

भवान्पिता भावन्माता भवान्नः परमो गुरुः।
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्।।

वैशंपायन उवाच।

अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्।
आराध्य वरदं देवं भगनेत्रहरं हरम्।।

गान्धारी किल पुत्राणां शतं लेभे वरं शुभा।
इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः।।

ततो गान्धारराजस्य प्रेषयामास भारत।
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा।।

कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः।
ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्।।

गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्।
आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत।।

ततः सा पटमादाय कृत्वा बहुगुणं तदा।
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा।।

नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया।
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्।।

स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्।
तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्।
भीष्मस्यानुमते चैव विवाहं समकारयत्।।

दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्।
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः।।

गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः।
तुष्टिं कुरूणां सर्वेषां जनयामास भारत।।

`गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम्।
अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत्।।

सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ।
नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा।।

वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा।
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्।।

तस्याः सहोदरीः कन्याः पुनरेव ददौ दश।
गान्धारराजः सुबलो भीष्मेण च वृतस्तदा।।

सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम्।
तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम्।।

शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः।
एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः।।

ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः।
अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम्।।'

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः।। 119 ।।