आदिपर्व

अध्यायः १०२

Adi Parva (Sanskrit) · Adhyaya 102
अक्षर का आकार

वैशंपायन उवाच।

इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः।
महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः।।

सोऽश्वमेधसहस्रेण राजसूयशतेन च।
तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः।।

ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः।
तत्र राजर्षयो ह्यासन्स च राजा महाभिषक्।।

अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्।
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्।।

ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा।
महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम्।।

सोपध्यातो भगवता ब्रह्मणा तु महाभिषक्।
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि।।

यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते।
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति।।

यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते।

वैशंपायन उवाच।

स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान्।।

प्रतीपं रोचयामास पितरं भूरितेजसम्।
सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम्।।

तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा।
सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप।।

ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः।
तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा।।

किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्।
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि।।

अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना।
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्।।

सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा।
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह।।

न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना।
त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि।।

न मानुषीणां जठरं प्रविशेम वयं शुभे।
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम्।।

गङ्गोवाच।

मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति।

वसव ऊचुः।

प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः।
भविता मानुषे लोके स नः कर्ता भविष्यति।।

गङ्गोवाच।

ममाप्येवं मतं देवा यथा मां वदथानघाः।
प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम्।।

वसव ऊचुः।

जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि।
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे।।

जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः।
शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः।।

गङ्गोवाच।

एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्।
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह।।

वसव ऊचुः।

तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्।
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः।।

न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः।
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्।।

।। इति श्रीमन्महाभारते आदिप्रवमि संभवपर्वणि द्व्यधिकशततमोऽध्यायः।। 102 ।। वर्गः:आदिपर्व