आदिपर्व
अध्यायः १०१
`वैशंपायन उवाच।
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः।'
तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः।।
भास्वरं दिव्यमजितं लोकसंनादनं महत्।
स विजित्य महीपालांश्चकार वशवर्तिनः।।
चचार च सतां धर्मं प्राप्य चानुत्तमं यशः।
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्।।
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः।
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्।।
श्रीमद्गोविततं नाम वाजिमेधमवाप सः।
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ।।
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः।।
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः।।
भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक्।
नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान्।।
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम्।
ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत्।।
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा।
लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत।।
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः।
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत्।।
ततो दिविरथो नाम भुमन्योरभवत्सुतः।
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा।।
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः।
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्।।
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः।
सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम्।।
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम्।
ममज्जेव मही तस्य भूरिभारावपीडिता।।
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्।
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः।।
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः।
प्रवृद्धजनसस्या च सर्वदैव व्यरोचत।।
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः।
अजमीढं सुमीढं च पुरुमीढं च भारत।।
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः।
षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत।।
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ।
केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ।।
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम्।
तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः।
अन्वयाः कुशिका राजञ्जन्होरमिततेजसः।।
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्।
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव।।
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम्।
संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम्।।
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा।
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम्।।
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च।
चालयन्वसुधां चेमां बलेन चतुरङ्गिणा।।
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम्।
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत्।।
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः।
राजा संवरणस्तस्मात्पलायत महाभयात्।।
`ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम्'।
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा।
नदीविपयपर्यन्ते पर्वतस्य समीपतः।।
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः।
तेषां निवसतां तत्र सहस्रं परिवत्सरान्।।
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः।
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च।।
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा।
निवेद्य सर्वमृषये सत्कारेण सुवर्चसे।।
तमासने चोपविष्टं राजा वव्रे स्वयं तदा।
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि।।
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत।
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम्।।
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्।
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम्।।
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः।
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः।।
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः।
ततः संवरणात्सौरी तपती सुषुवे कुरुम्।।
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे।
`महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम्।'
तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं।।
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः।
अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम्।।
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम।
पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी।।
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान्।
आदिराजो विराजश्च शाल्मलिश्च महाबलः।।
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः।
एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः।
जनमेजयादयः सप्त तथैवान्ये महारथाः।।
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः।
कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान्।।
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः।
जनमेजयस्य तनया भुवि ख्याता महाबलाः।।
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च।
निषधश्च महातेजास्तथा जाम्बूनदो बली।।
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः।
सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः।।
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः।
हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः।।
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः।
धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि।।
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत।
प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि।।
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ।
देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः।।
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया।
शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः।।
भरतस्यान्वयास्त्वेते देवकल्पा महारथाः।
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः।।
एवंविधा महाभागा देवरूपाः प्रहारिणः।
अन्ववाये महाराज ऐलवंशविवर्धनाः।।
`गङ्गातीरं समागम्य दीक्षितो जनमेजय।
अश्वमेधसहस्राणि वाजपेयशतानि च।।
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः।
अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः।।
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः।
दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः।।
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ।
जम्बूनदस्य शुद्धस्य कनकस्य महायशाः।।
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः।
सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः।।
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः।
हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम्।।
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः।
भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम्।।
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून्।
ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा।।
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्।'
भरतस्यान्वये जाता देवकल्पा महारथाः।।
बहवो ब्रह्मकल्पाश्च बभूवुः क्षत्रसत्तमाः।
तेषामपरिमेयानि नामधेयानि सन्त्युत।।
तेषां कुले यथा मुख्यान्कीर्तयिष्यामि भारत।
महाभागान्देवकल्पान्सत्यार्जवपरायणान्।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोत्तरशततमोऽध्यायः।। 101 ।।