आदिपर्व

अध्यायः १०३

Adi Parva (Sanskrit) · Adhyaya 103
अक्षर का आकार

वैशंपायन उवाच।

ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा।
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्।।

तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी।
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः।।

अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी।
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना।।

प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्।
`वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित्।'
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्।।

स्त्र्युवाच।

त्वामहं कामये राजन्भजमानां भजस्व माम्।
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः।।

प्रतीप उवाच।

नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि।
न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम्।।

`यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम्।
निरयान्नैव मुच्यते यावदाभूतसंप्लवम्।।'

स्त्र्युवाच।

नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्।
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम्।।

प्रतीप उवाच।

त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम्।
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः।।

प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने।
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्।।

सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः।
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने।।

स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम्।
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता।।

स्त्र्युवाच।

एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम्।।

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि।।

कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम्।
समयेनेह धर्मज्ञ आचरेयं च यद्विभो।।

तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्।
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम्।।

पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः।

वैशंपायन उवाच।

तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत।
`अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा।।'

पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत्।
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः।।

तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन।
`प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत।।

श्रिया परमया युक्तः शरच्छुक्ले यथा शशी।
ततस्तु दशमे मासि प्राजायत रविप्रभम्।।

कुमारं देवगर्भाभं प्रतीपमहिषी तदा।'
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक्।।

शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः।
`तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः।।

जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा।
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम्।।

शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा।
ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः।।

स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः।
धनुर्वेदे च वेदे च गतिं स परमा गतः।।

यौवनं चापि संप्राप्तः कुमारो वदतां वरः।'
संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा।।

पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः।
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्।।

पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव।
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी।।

कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया।
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने।।

यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ।
सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्।।

एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा।
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह।।

स राजा शान्तनुर्धीमान्देवराजसमद्युतिः।
`बभूव सर्वलोकस्य सत्यवागिति संमतः।।

पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः।।

अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित्।
वशे चक्रे महीमेको विजित्य वसुधाधिपान्।।

वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः।
ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः।।

तर्पयामास विप्रांश्च वेदाध्ययनकोविदान्।
रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि।।

वयोरूपेण संपन्नः पौरुषेण बलेन च।
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च।।

वर्तमानश्च सत्येन सर्वधर्मविशारदः।
तं महीपं महीपाला राजराजमकुर्वत।।

वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः।
श्रिया भरतशार्दूल समपद्यन्त भूमिपाः।।

नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत।
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः।।

ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः।
एवं पशुवराहाणां तथैव मृगपक्षिणाम्।।

शान्तनावथ राज्यस्थे नावर्तत वृथा वधः।
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्।।

स एव राजा सर्वेषां भूतानामभवत्पिता।
स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः।।

तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः।।

बभूव राजा सुमतिः प्रजानां सत्यविक्रमः।
स वनेषु च रम्येषु शैलप्रस्रवणेषु च।।'

चचार मृगयाशीलः शान्तनुर्वनगोचरः।
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः।।

गङ्गामनु चचारैकः सिद्धचारणसेविताम्।
स कदाचिन्महाराज ददर्श परमां स्त्रियम्।।

जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्।
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्।।

सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्।
`स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने।।

प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान्।
रूपेण वयसा कान्त्या शरीरावयवैस्तथा।।

हावभावविलासैश्च लोचनाञ्चलविक्रियैः।
श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा।।

कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च।
कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम्।।

वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः।
सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती।।'

तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा।
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः।।

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी।।

`गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी।
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा।।

दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः।
रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः।।'

तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा।
देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः।।

यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे।
`याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे।।

त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन।'
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यधिकशततमोऽध्यायः।। 103 ।।