आदिपर्व

अध्यायः १००

Adi Parva (Sanskrit) · Adhyaya 100
अक्षर का आकार

वैशंपायन उवाच।

अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी।
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम्।।

माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला।।

`सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः।
आत्मा चैव सुतो नाम तेनैव तव पौरव।।

आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम्।
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम्।।

स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः।
मासि मासि रजो ह्यासां दुरितान्यपकर्षति।।

ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः।

देवा ऊचुः।

आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्'।।

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला।।

`पतिर्जायां प्रविशति स तस्यां जायते पुनः।
अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम्।।'

जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम्।
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप।।

सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम्।
शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम्।।

भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः।।

`भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्।
अपरे ये च पूर्वे च भारता इति तेऽभवन्।।

वैशंपायन उवाच।

एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः।
पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे।।'

तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम्।
`सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः।।'

पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्।
शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम्।।

`शृण्वन्तु देवतानां च महर्षीणां च भाषितम्'।
अहमप्येवमेवैनं जानामि सुतमात्मजम्।।

यद्यहं वचनादस्या गृह्णीयामिममात्मजम्।
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्।।

वैशंपायन उवाच।

तां विशोध्य तदा राजा देवैः सह महर्षिभिः।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्।।

ततस्तस्य तदा राजा पितृकर्माणि सर्वशः।
कारयामास मुदितः प्रीतिमानात्मजस्य ह।
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे।।

सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः।
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः।।

स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः।।

लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत्।
कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः।।

तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम्।।

शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम्।
तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम्।।

`ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः।
त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्'।।

पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव।।

यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये।
प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे।।

`अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम्।
त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः।
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः।।

एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम्।
अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम्।।

वासोभिरन्नपानैश्च पूजयित्वा तु भारत।
`स मातरमुपस्थाय रथन्तर्यामभाषत।।

मम पुत्रो वने जातस्तव शोकप्रणशनः।
ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने।।

विश्वामित्रसुता चेयं कण्वेन च विवर्धिता।
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम्।।

पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे।
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम्।।

परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत्।
उवाच वचनं सत्यं लक्षये लक्षणानि च।।

तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति।
तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत्।।

दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि।
एवमुक्ता रथ्तर्या परं हर्षमवाप सा।।

शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा।
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम्।।

ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः।
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा'।।

भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्।
`भरते भारमावेश्य कृतकृत्योऽभवन्नृपः।।

ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः।
गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्।।'

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः।। 100 ।।