सूर्यतापिन्युपनिषत्
उपनिषद् · ☀️ सूर्य देव · Sanskrit · ⏱ 6 min
अन्य नाम · Also known as सूर्यतापिन्युपनिषत्
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
प्रथमः पटल:
ॐ अथ भगवन्तं कमलासनं चतुर्मुखं पितरं ब्रह्माणं सनत्कुमार उपससार । प्रणनामाहं भो इति । अधीहि भो इति पप्रच्छ । को मनुः । दिव्यं किं ध्येयम् । यज्जपात्सर्वैनोनिवृत्तिः । यद्व्यानात्सारूप्यसिद्धिः तद्ब्रवीतु भगवान् लोकानुग्रहायेति । तच्छ्रुत्वा पितामह आह --- शृणोतु भवानेकमनाः सर्वदा यमामनन्ति यन्नमस्यन्ति देवाः स ब्रह्मा स शिवः स हरिस्सेन्द्रः सोऽक्षरः परमः स्वराट् स सूर्यो भगवान् सहस्रांशुः तं सूर्यं भगवन्तं सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात् । कश्यपादुदिताः सूर्याः पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । अपैतं मृत्युं जयति । य एवं वेद । योऽसौ तपन्नुदेति । असौ योऽस्तमेति । असौ योऽपक्षीयति । एष हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः । असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्नदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः । ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्येअह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः । ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः ॥
एष ब्रह्मा च विष्णुश्च रुद्र एष हि भास्करः ।
त्रिमूर्त्यात्मा त्रिवेदात्मा सर्वदेवमयो रविः ॥ इति ।
योगेन ऊर्ध्वमन्थिनः सूर्यं भगवन्तमुपासते । धनधान्यबहुरत्नवन्तो निर्व्याधिवन्त आयुष्यवन्त आरोग्यवन्तो रयिवन्तो धनवन्तो बलवन्तो बहुपुत्रवन्त इति । यः श्रीकामः शान्तिकामः तुष्टिकामः पुष्टिकामो मेधाकामः प्रज्ञाकाम आयुष्काम आरोग्यकामोऽन्नाद्यकामो भास्करं भगवन्तमुपासीत । सयोनिः सरूपतां सलोकतां गत्वा स्तुत्वा महानन्दमुदकमुपस्पृश्यापोऽवगाह्य वाग्यतः नित्यकर्म कृत्वा शुचौ देशेऽप्यासीनो दर्भान् धारयमाणः प्राङ्मुख उपविश्य प्राणानायम्य देशकालौ सङ्कीर्त्य त्रिवेदमयं त्रिमूर्तिं त्रिगुणं चतुष्पदं पञ्चरूपं षडर्णवेद्यं सप्ताश्वमष्टशापेति (?) मुदयाद्रिसमारूढमुदयन्तं पद्मकरं पद्मासनं पद्मनयनं पद्मबान्धवं दिव्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाभरणभूषितं सर्ववेदसं सर्वदेवाधिदैवतं सर्वदेवनमस्यन्तं काश्यपं भास्करं ध्यात्वा प्रस्कण्वः कण्वपुत्रो मुनिरस्य छन्दोऽनुष्टुब्भास्करो द्वादशात्मको दैवतमुदात्तस्वरो ज्ञानं नेत्रं सूर्यस्तत्त्वं प्रथमं बीजं द्वितीयं शक्तिस्तृतीयं कीलकमथापि श्रींबीजं शक्तिः सूर्य इति कीलकम् । अथ पादाद्यैरर्धर्चैः ऋग्भिस्तृचेन द्वादशभिर्नामभिः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्कराख्यैः षड्बीजैः संपुटिताः । स्तस्य सिध्यन्ति । गच्छेदंते परं पदम् ॥
प्रोक्तमादित्यमाहात्म्यं यन्मां त्वमनुपृच्छसि ।
प्रत्यक्षदैवतं भानुः परोक्षं सर्वदेवताः ॥
तद्ध्यानं पूजनं कार्यं श्रेयस्कामैर्जितेन्द्रियैः ।
जितेन्द्रियाय शान्ताय मन्त्रं देयमिदं महत् ॥
न देयं चञ्चलाक्षाय नाभक्ताय कदाचन ।
हसन्ति लोकायतिका हसन्ति कुटिला जनाः ॥
तस्माद्गोप्यं प्रयत्नेन न देयं यस्य कस्यचित् ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥
तथा प्रत्यर्थिकृत्याभिर्मन्त्रयन्त्रादिकिल्बिषैः ।
किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ॥ इति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये प्रथमः पटलः
द्वितीय: पटल:
सनत्कुमारो भगवन्तं पितरं प्रणिपत्य पप्रच्छ ॥
कथं ध्यानं कथं न्यासः कथं पूजाविधानकम् ।
अर्घ्यदानं कथं कार्यं ब्रवीतु भगवानिदम् ॥ इति ॥
ततो भगवान् पितामह आह---
यतवाक्कायमनसः सूर्यभक्तो ब्रह्मचारी व्रतधरः ष. . . . .
समुदायगुरुं कृधि । उद्यन्नद्यमिनो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे । तस्य नो देहि सूर्य । इति द्व्यर्चं महामन्त्रं जप्त्वा प्रत्यर्थिनो जयति । उद्यन्नद्यमित्र महः । आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे । हरिमाणं निदध्मसि । उदगादयमादित्यः । विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रथम् । उद्यन्नद्येत्ययं तृचो रोगघ्नः उपनिषदंत्यार्धर्चशो द्विषं (?) ना (?) यो नः शपादशपत् । यश्च नःशपतः शपात् । उषाश्च तस्मै निम्रुक् च । सर्वं पापं समूहताम् । इत्येकर्चो रोगघ्नः प्रत्यर्थिहारी ।
आकाशो वह्निना युक्तो दीर्घाद्यश्च सबिन्दुकः ।
आद्योऽयमर्णकोपिष्ठो द्वितीयेन द्वितीयकः ॥
तृतीयेन तृतीयः स्यात् द्वादशेन तृतीयकः ।
भूतेन पञ्चमः प्रोक्तः षष्ठः षोडशतः स्वरात् ॥
षडर्चोऽयं महामन्त्रः सर्वसिद्धिप्रदायकः ।
एतन्मन्त्रं मयोद्दिष्टं गुह्याद्गुह्यतमं महत् ॥
एतज्जत्वा महामन्त्रं सर्वपापैः प्रमुच्यते ।
पूजयित्वा विवस्वन्तमर्घ्यदानं समाचरेत् ।
एवं यः कुरुते पूजां मुच्यते सर्वकिल्बिषैः ॥
सर्वामश्नुत इति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये द्वितीयः पटल:
तृतीयः पटलः
अथ सौरमनूनि प्रवक्ष्यामि निगमोदितानि । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तम् । य एवं वेद । श्रिया हैवाऽभिषिच्यते । सह वा एतस्य स्वधा न यजुषा न साम्नामर्थोऽस्ति । यस्सावित्रं वेद । अहो नाहाश्वथ्यः । सावित्रं विदाञ्चकार । तं ह वागदृश्यमानाभ्युवाच । सर्वं बत गौतमो वद ! यस्सावित्रं वेदेति । स होवाच । सैषा वागसीति । अयमहं सावित्रः । देवानामुत्तमो लोकः । गुह्यं महो बिभ्रदिति । एतावदिह गौतमः यज्ञोपवीतंकृत्वाऽधो निपपात । नमो नम इति । स होवाच । मा भैषीर्गौतम जितो वै ते लोक इति । तस्माद्ये केच सावित्रं विदुः । सर्वं ते जितलोकाः । उद्यन्नद्य मित्र महः । सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि । निम्रोचन्नधरान् कृधि । न्यासोपयोगस्तथैवार्घ्यदाने च पादन्यास आद्योऽर्धर्चन्यासो द्वितीयरुज्ञस (?) स्तृतीयस्तृचन्यासश्च बीजन्यासो हंसन्यास इति बहुधा वर्णयन्ति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये तृतीयः पटलः ।
चतुर्थः पटलः
अथ पूजाविधानं वक्ष्ये --- यन्त्रस्य पूर्वद्वारे द्वारश्रियै क्षेत्रपालाय मायायै नम इति दक्षिणतो द्वारश्रियै गणेशाय मायायै प्रत्यक्तो दुर्गायै मायायै उदक्तो महालक्ष्म्यै मायायै नमः । पूर्वपत्रे सूर्यायाग्नेयपत्रे रवये दक्षिणे विवस्वते नैर्ऋतौ खगाय पश्चिमे वरुणाय वायव्ये मित्राय सौम्ये आदित्याय ईशान्ये नमो महसे भास्कराय नम इत्यथाष्टदळपूजादित्यसवितृसूर्यखगपूषगभस्तिमार्ताण्डजगच्चक्षुभिरष्टभिर्जातैरथ पीठपूजाधारशक्तिमूलप्रकृतिकूर्मानन्तवराहपृथिवीसुवर्णमण्टपरत्नसिंहासनैर्ङिन्तैः धर्मज्ञानवैराग्यैश्वर्यैर्नञ्पूर्वैश्च ङिन्तैर्ऋग्वेदादिभिश्चतुर्भिः कृतादिभिश्चतुर्भिर्मन्दारादिभिः पञ्चभिः पीठकल्पमूलकन्दनाळपद्मपत्रकेसरकर्णिकासूर्यमण्डलसोमवह्निब्रह्मविष्णुरुद्रसत्वरजस्तमआत्मान्तरात्मा परमात्मभूः पुरुषभुवः पुरुषसुवः पुरुषभूर्भुवस्सुवः पुरुषाद्यैर्डिन्तैस्तृचेन सर्वोपचारोपयोगस्तेन सर्वाघौघनिवृत्तिः सिद्ध्यतीति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये चतुर्थ: पटल:
पश्चमः पटल:
अथ यन्त्रं प्रवक्ष्यामि देवतासु प्रसाधनम् ।
यन्त्रं विना देवता च न प्रसीदति सर्वदा ॥
वृत्तमादौ विलिख्य साष्टपत्रं ततस्त्रिकोणं वृत्तं षडश्रं वृत्तयुगळं साधुकोणं समालिखेदिति । तत्रैता देवता आवाह्य द्वादशावरणानि कुर्यात्तत्र देवतामार्ताण्डादिभान्वादित्यहंससूर्यदिवाकरतपनभास्करा ङिन्ताः प्रथमावरणे मित्रादयो द्वादशमन्त्राद्याः द्वितीये सूर्योदये नवखेटस्तृतीयं धाता ध्रुवसोमानिलानलप्रत्यूषप्रभासश्चतुर्थे वीरभद्रगिरिशशंकरैकपादहिर्बुध्न्यादीनाः भुवनाधिपतिविशांपतिपशुपतिस्थाणुभवाः पञ्चमे धात्रर्यमांशुमध्यमणिभवेन्द्रविवस्वत्पूषगभस्तिमार्ताण्डजगच्चक्षुषः षष्ठे अरुणसूर्यवेदाङ्गभान्विन्द्ररविगभस्तियमसुवर्णरेतोदिवाकरमित्रविष्णुमाघादिद्वादशमासाधिपतयः सप्तमे असिताङ्गो रुरुश्चन्द्रक्रोधोन्मत्तकपालिभीषणसंहाराः अष्टमे ब्राह्म्यादयः सप्तमातरो नवमे इन्द्रादयोऽष्टौ दशमे मेषादयो द्वादशैकादशे वज्रशक्तिखङ्गपाशाङ्कुशगदात्रिशूलचन्द्रमुसलपद्मानि द्वादशे मध्ये भास्करं ध्यायेदुपचारान् समर्प्यार्ध्याणि दद्यात् भगवान् सुप्रीतो भवेत् ॥
इत्याथर्वणशिरसि सूर्यतापिनीये पञ्चमः पटलः
षष्ठः पटलः
अथ यन्त्रे बीजोद्धारं प्रवक्ष्यामि देवतासन्निधये वृत्तभानुमतीद्व्यर्णमुद्धरेत्कमलाष्टपर्णेषु दण्ड एषः पिङ्गाक्षप्रचण्डक्षेत्रपालगणपतिदुर्गालक्ष्म्यो ङेन्ता अष्टौ स्याद्वर्ण (?) बीजकाद्याः षट्कोणेषु तारया हंसस्सोहमितिचतुराशासु मायामङ्कुशं च माख (?) ष्वष्टसु तत्तदाद्यर्णमध्ये तृतीयनामादिकमिति देशिकोक्त्या सर्वे विज्ञाय साधकः सिद्ध्यति ॥
गुरुभक्ताय शान्ताय प्रदेयं नियतात्मने ।
न च शुश्रूषवे वाच्यं हैतुकाय कदाचन ॥
देशिकोक्तविधानेन यन्त्रे देवं प्रपूजयेत् ।
अर्घ्यदानं ततः कुर्याद्भानुरप्रियः सदा ॥
देशिकोक्तेन मन्त्रेण तृचेन च यथाविधि ।
साधकः साधयेत् सर्वमिह लोके परत्र च ॥
किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ।
प्रत्यक्षदैवतं सूर्यः परोक्षं सर्वदेवताः ॥
सूर्यस्योपासनं कार्यं गच्छेत् सूर्यसꣳ सदम् ।
गच्छेत् सूर्यसꣳसदं गच्छेत् सूर्यसꣳसदमिति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये षष्ठः पटल:
सूर्यतापिन्युपनिषत् समाप्ता
अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
The bija mantra of Surya Dev, recited at sunrise with arghya.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.