महामहिमान्वितं आदित्यस्तोत्रम्
स्तोत्र · ☀️ सूर्य देव · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as महामहिमान्वितं आदित्यस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
अथ श्रीमदप्पय्यदीक्षितविरचितं महामहिमान्वितं आदित्यस्तोत्रम् ॥
विस्तारायाममानं दशभिरुपगतो योजनानां सहस्रैः
चक्रे पञ्चारनाभित्रितयवति लसन् नेमिषट्के निविष्टः ।
सप्तच्छन्दस्तुरङ्गाहितवहनधुरो हायनांशत्रिवर्ग
व्यक्ताकॢप्ताखिलाङ्गः स्फुरतु मम पुरः स्यन्दनश्चण्डभानोः ॥ १॥
आदित्यैरप्सरोभिर्मुनिभिरहिवरैर्ग्रामणीयातुधानैः
गन्धर्वैर्वालखिल्यैः परिवृतदशमांशस्य कृत्स्नं रथस्य ।
मध्यं व्याप्याधितिष्ठन् मणिरिव नभसो मण्डलश्चण्डरश्मेः
ब्रह्मज्योतिर्विवर्तः श्रुतिनिकरघनीभावरूपः समिन्धे ॥ २॥
निर्गच्छन्तोऽर्कबिम्बान् निखिलजनिभृतां हार्दनाडीप्रविष्टाः
नाड्यो वस्वादिबृन्दारकगणमधुनस्तस्य नानादिगुत्थाः ।
वर्षन्तस्तोयमुष्णं तुहिनमपि जलान्यापिबन्तः समन्तात्
पित्रादीनां स्वधौषध्यमृतरसकृतो भान्ति कान्तिप्ररोहाः॥ ३॥
श्रेष्ठास्तेषां सहस्रे त्रिदिववसुधयोः पञ्चदिग्व्याप्तिभाजां
शुभ्रांशुं तारकौघं शशितनयमुखान् पञ्च चोद्भासयन्तः ।
आरोगो भ्राजमुख्यास्त्रिभुवनदहने सप्तसूर्या भवन्तः
सर्वान् व्याधीन् सुषुम्नाप्रभृतय इह मे सूर्यपादाः क्षिपन्तु ॥ ४॥
आदित्यानाश्रिताः षण्णवतिगुणसहस्रान्विता रश्मयोऽन्ये
मासे मासे विभक्तास्त्रिभुवनभवनं पावयन्तः स्फुरन्ति ।
येषां भुव्यप्रचारे जगदवनकृतां सप्तरश्म्युत्थितानां
संसर्पे चाधिमासे व्रतयजनमुखाः सत्क्रियाः न क्रियन्ते ॥ ५॥
आदित्यं मण्डलान्तःस्फुरदरुणवपुस्तेजसा व्याप्तविश्वं
प्रातर्मध्याह्नसायं समयविभजनादृग्यजुस्सामसेव्यम् ।
प्राप्यं च प्रापकं च प्रथितमतिपथिज्ञानिनामुत्तरस्मिन्
साक्षाद् ब्रह्मेत्युपास्यं सकलभयहराभ्युद्गमं संश्रयामि ॥ ६॥
यच्छक्त्याऽधिष्ठितानां तपनहिमजलोत्सर्जनादिर्जगत्याम्
आदित्यानामशेषः प्रभवति नियतः स्वस्वमासाधिकारः ।
यत् प्राधान्यं व्यनक्ति स्वयमपि भगवान् द्वादशस्तेषु भूत्वा
तं त्रैलोक्यस्य मूलं प्रणमत परमं दैवतं सप्तसप्तिम् ॥ ७॥
स्वःस्त्रीगन्धर्वयक्षा मुनिवरभुजगा यातुधानाश्च नित्यं
नृत्तैर्गीतैरभीशुग्रहनुतिवहनैरग्रतः सेवया च ।
यस्य प्रीतिं वितन्वन्त्यमितपरिकरा द्वादश द्वादशैते
हृद्याभिर्वालखिल्याः सरणिभणितिभिस्तं भजे लोकबन्धुम् ॥ ८॥
ब्रह्माण्डे यस्य जन्मोदितमुषसि परब्रह्ममुख्यात्मजस्य
ध्येयं रूपं शिरोदोश्चरणपदजुषा व्याहृतीनां त्रयेण ।
तत् सत्यं ब्रह्म पश्याम्यहरहमभिधं नित्यमादित्यरूपं
भूतानां भूनभस्स्वः प्रभृतिषु वसतां प्राणसूक्ष्मांशमेकम् ॥ ९॥
आदित्ये लोकचक्षुष्यवहितमनसां योगिनां दृश्यमन्तः
स्वच्छस्वर्णाभमूर्तिं विदलितनलिनोदारदृश्याक्षियुग्मम् ।
ऋक्सामोद्गानगेष्णं निरतिशयलसल्लोककामेशभावं
सर्वावद्योदितत्वादुदितसमुदितं ब्रह्म शम्भुं प्रपद्ये ॥ १०॥
ओमित्युद्गीथभक्तेरवयवपदवीं प्राप्तवत्यक्षरेऽस्मिन्
यस्योपास्तिः समस्तं दुरितमपनयत्वर्कबिम्बे स्थितस्य ।
यत् पूजैकप्रधानान्यघमखिलमपि घ्नन्ति कृच्छ्रव्रतानि
ध्यातः सर्वोपतापान् हरतु परशिवः सोऽयमाद्यो भिषङ्नः ॥ ११॥
आदित्ये मण्डलार्चिः पुरुषविभिदयाद्यन्तमध्यागमात्म-
न्यागोपालाङ्गनाभ्यो नयनपथजुषा ज्योतिषा दीप्यमानम्
गायत्रीमन्त्रसेव्यं निखिलजनधियां प्रेरकं विश्वरूपम् ।
नीलग्रीवं त्रिने(णे)त्रं शिवमनिशमुमावल्लभं संश्रयामि ॥ १२॥
अभ्राकल्पः शताङ्गः स्थिरफणितिमयं मण्डलं रश्मिभेदाः
साहस्रास्तेषु सप्त श्रुतिभिरभिहिताः किञ्चिदूनाश्च लक्षाः ।
एकैकेषां चतस्रस्तदनु दिनमणेरादिदेवस्य तिस्रः
कॢप्ताः तत्तत्प्रभावप्रकटनमहिताः स्रग्धरा द्वादशैताः ॥ १३॥
दुःस्वप्नं दुर्निमित्तं दुरितमखिलमप्यामयानप्यसाध्यान्
दोषान् दुःस्थानसंस्थग्रहगणजनितान् दुष्टभूतान् ग्रहादीन् ।
निर्धूनोति स्थिरां च श्रियमिह लभते मुक्तिमभ्येति चान्ते
सङ्कीर्त्य स्तोत्ररत्नं सकृदपि मनुजः प्रत्यहं पत्युरह्नाम् ॥ १४॥
॥ इति श्रीमदप्पय्यदीक्षितविरचितश्रीमदादित्यस्तोत्ररत्नम् ॥
Sanskrit Wikisource, page "महामहिमान्वितं आदित्यस्तोत्रम्", revision 91602.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
The bija mantra of Surya Dev, recited at sunrise with arghya.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.