सावित्र्युपनिषत्
उपनिषद् · ☀️ सूर्य देव · Sanskrit · ⏱ 3 min
अन्य नाम · Also known as सावित्र्युपनिषत्
Sanskrit text from Sanskrit Wikisource.
सावित्र्युपनिषद्वेद्यcइत्सावित्रपदोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं रामcअन्द्रपदं भजे ॥ १॥
सावित्र्यात्ना पाशुपतं परं ब्रह्मावधूतकम् ।
त्रिपुरातपनं देवी त्रीपुरा कठभावना ॥ २॥
ॐ आप्यायन्तु ममा"न्गानि वाक्प्राणश्cअक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\\स्त्वनिराकरणं
मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु ॥
{ॐ शान्तिः शान्तिः शान्तिः ॥}
{हरिः ॐ ॥}
कः सविता क सावित्री अग्निरेव सविता पृथिवी सावित्री स
यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥~१॥
कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र
वरुणस्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं मिथुनम् ॥~२॥
कः सविता क सावित्री वायुरेव सविताकाशः सावित्री स यत्र
वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं मिथुनम् ॥~३॥
कः सविता का सावित्री यज्ञ एव सविता चन्दांसि सावित्री स
यत्र यज्ञस्तत्र चन्दांसि यत्र वा चन्दांसि स यज्ञस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ४॥
कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स
यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ५॥
कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स
यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ६॥
कः सविता का सावित्री cअन्द्र एव सविता नक्षत्राणि सावित्री
स यत्र cअन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स cअन्द्रमास्ते द्वे योनिस्तदेकं मिथुनम् ॥ ७॥
कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र
मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ८॥
कः सविता का सावित्री पुरुप एव सविता स्त्री सावित्री स यत्र
पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं मिथुनम् ॥~९॥
तस्या एव प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै
वरेण्यमापो वरेण्यं cअन्द्रमा वरेण्यम् । तस्या एव द्वितीयः
पादो भर्गमयोऽपि भुव्प् भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग
आदित्यो वै भर्गश्cअन्द्रमा वै भर्गः । तस्या एष तृतीयः
पादः स्वर्धियो यो नः प्रcओदयादिति स्त्री cऐव पुरुषश्cअ
प्रजनयतो यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं
जयति बलातिबलयोर्विराट् पुरुषः । गायत्री चन्दः ।
गायत्री देवता । अकारोकारमकारा वीजाद्याः ।
क्षुधादिनिरसने विनियोगः । क्लामित्यादिषड"न्गन्यासः ।
द्यानम् । अमृतकरतलार्द्रौ
सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे ।
प्रणवमयविकारौ भास्कराकारदेहौ सततमनूभवेअं तौ
बलातिबलान्तौ ॥
ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं
cअतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके
ह्रीं बरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते
बले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रcउर्यः
या प्रcओदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा ।
एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां
जयतीत्युपनिषत् ॥
ॐ आप्यायन्तु ममा"न्गानि वाक्प्राणश्cअक्षुः श्रोत्रमथो
बलमिन्द्रियाणि cअ । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\\स्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
{ॐ शान्तिः शान्तिः शान्तिः ॥}
Sanskrit Wikisource, page "सावित्र्युपनिषत्", revision 100755.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
The bija mantra of Surya Dev, recited at sunrise with arghya.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.