सरस्वतीरहस्योपनिषत्
उपनिषद् · 🎵 माँ सरस्वती · Sanskrit · ⏱ 8 min
अन्य नाम · Also known as सरस्वतीरहस्योपनिषत्
Sanskrit text from Sanskrit Wikisource.
प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितम् ॥
आविरावीर्म एधि वेदस्य म आणीस्थः
शृतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु
अवतु मामवतु वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
1
हरिः ॐ ॥
ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः
केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् ।
यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १.१ ॥
सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया ।
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ १.२ ॥
ऋषयः ऊचुः ।
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वद ॥ १.३ ॥
स होवाचाश्वलायनः ।
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।
अहमाश्वलायन ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीवागीश्वरी देवता ।
यद्वागिति बीजम् ।
देवीं वाचमिति
शक्तिः ।
ॐ प्रणो देवीति कीलकम् ।
विनियोगस्तत्प्रीत्यर्थे ।
श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥
नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं
वाणीं नमामि मनसा वचसा विभूत्यै ॥ १ ॥
ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।
गायत्री छन्दः ।
श्रीसरस्वती देवता ।
प्रणवेन बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥
ॐ प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती ।
धीनामवित्र्यवतु ॥ २.१ ॥
आ नो दिव इति मन्त्रस्य अत्रिरृषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
ह्रीमिति बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥
ह्रीं आ नो दिवो बृहतः पर्वतादा सरस्वती यजतागंतु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचामुशती शृणोतु ॥ २.२ ॥
पावका न इति मन्त्रस्य ।
मधुच्छन्द ऋषिः ।
गायत्री छन्दः ।
सरस्वती देवता ।
श्रीमिति बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥
श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धिया वसुः ॥ २.३ ॥
चोदयत्रीति मन्त्रस्य मधुच्छन्द ऋषिः ।
गायत्री छन्दः ।
सरस्वती देवता ।
ब्लूमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥
ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ २.४ ॥
महो अर्ण इति मन्त्रस्य ।
मधुच्छन्द ऋषिः ।
गायत्री छन्दः ।
सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः ।
ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।
सौः महो अर्णः सरस्वती प्रचेतयति केतुना ।
धियो विश्वा विराजति ॥ २.५ ॥
चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
ऐमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।
व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥
ऐं चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ २.६ ॥
यद्वाग्वदन्तीति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
क्लीमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥
क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ २.७ ॥
देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥
सौः देवीं वाचमजनयन्त देवास्ता विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥२.८ ॥
उत त्व इति मन्त्रस्य बृहस्पतिरृषिः ।
त्रिष्टुप्छन्दः ।
सरस्वती देवता ।
समिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥
सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः ॥ २.९ ॥
अम्बितम इति मन्त्रस्य गृत्समद ऋषिः ।
अनुष्टुप् छन्दः ।
सरस्वती देवता ।
ऐमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
नामरूपात्मकं सर्वं यस्यामावेश्य तं पुनः ।
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥
ऐं अम्बितमे नदीतमे देवितमे सरस्वती ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ २.१० ॥
3
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ३.१ ॥
नमस्ते शारदे देवि काश्मीरपुरवासिनी ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ २ ॥
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३ ॥
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।
महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४ ॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसद्ना शमादिगुणदायिनी ॥ ३.५ ॥
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ६ ॥
यः कवित्वं निरातङ्कं भक्तिमुक्ती च वाञ्छति ।
सोऽभ्यैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७ ॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ ८ ॥
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥ ९ ॥
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ ३.१० ॥
आत्मविद्या मया लब्धा ब्रह्मणैव सनातनी ।
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११ ॥
प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः ।
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् ॥ १२ ॥
तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥ १३ ॥
शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः ।
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४ ॥
सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि ।
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥ ३.१५ ॥
सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि ।
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥ १६ ॥
यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।
शक्तिद्वयं हि मायया विक्षेपावृत्तिरूपकम् ॥ १७ ॥
विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ।
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८ ॥
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ।
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥ १९ ॥
चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ।
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ ३.२० ॥
आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ।
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१ ॥
या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते ।
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥ २२ ॥
भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् ।
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३ ॥
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ।
अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ॥ २४ ॥
समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः ।
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥ ३.२५ ॥
दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा ।
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥ २६ ॥
ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ।
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥ २७ ॥
अस्मीतिशब्दविद्धोऽयं समाधिः सविकल्पकः ।
स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥ २८ ॥
निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ।
हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९ ॥
समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः ।
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३.३० ॥
एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ।
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२ ॥
मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि ।
इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥ ३३ ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि ।
वेदस्य म आणीस्थः ।
शृतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु मामवतु वक्तारमवतु वक्तारम् ॥
॥ इति सरस्वतीरहस्योपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "सरस्वतीरहस्योपनिषत्", revision 403764.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
The bija mantra of Maa Saraswati, recited before study.
विद्या, बुद्धि और भक्ति की जननी सरस्वती जी की आरती, जो वसन्त पंचमी और विद्यारम्भ के अवसर पर गाई जाती है।
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.