🙏

शारदापञ्चरत्नस्तुतिः

Sharadapancaratna Stutih

स्तोत्र · 🎵 माँ सरस्वती · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as शारदापञ्चरत्नस्तुतिः

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

विद्यामुद्राक्षमालाऽमृतकलशकरा कोटिसूर्यप्रकाशा
जाया पद्मोफ़्भवस्य प्रणतजनततेः सर्वमिष्टं दिशन्ती ।
इन्द्रोपेन्द्रादिवन्द्या त्रिभुवनजननी वाक्सवित्री शरण्या
सेयं श्रीशारदाम्बां सकलसुखकरी मङ्गलानि प्रदद्यात् ॥

॥ इति ध्यानम्॥
श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे
शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।
पीठे तां रविकोटिदीप्तिसहितां राराजमानां शिवां
राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥१॥

पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं
वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।
विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां
विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥२॥

ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं
दैत्यव्रातविनाशिनीं कुचजितप्रावृट्पयोदां शिवाम् ।
संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं
वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥३॥

कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां
कामारेः सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।
कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां
कञ्जोद्भूतमनः प्रियां हृदि भजे भक्त्या सदा शारदाम् ॥४॥

नित्याऽनित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः
यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् ।
नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं
भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥५॥

स्रोत · Source

Sanskrit Wikisource, page "शारदापञ्चरत्नस्तुतिः", revision 38053.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयमाँ सरस्वती पूजा बुक करें