रामतापिन्युपनिषत्
उपनिषद् · 🏹 श्री राम · Sanskrit · ⏱ 15 min
अन्य नाम · Also known as रामतापिन्युपनिषत्
Sanskrit text from Sanskrit Wikisource.
अविमुक्तोपासनम् -
ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् ।
यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ १ ॥
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति ।
तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् ॥ २ ॥
एवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
इति प्रथमः खण्डः ॥
रामषडक्षरस्य तारकत्वम् -
अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं
किं तारकं किं तारयतीति ॥ १ ॥
स होवाच याज्ञवल्क्यः तारकं
दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां
नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः
सच्चिदानन्दाख्या इत्युपासितव्यम् ॥ २ ॥
अकारः प्रथमाक्षरो भवति ।
उकारो द्वितीयाक्षरो भवति ।
मकारस्तृतीयाक्षरो भवति ।
अर्धमात्रश्चतुर्थाक्षरो भवति ।
बिन्दुः पञ्चमाक्षरो भवति ।
नादः षष्ठाक्षरो भवति ।
तारकत्वात्तारको भवति ।
तदेव तारकं ब्रह्म त्वं विद्धि ।
तदेवोपासितव्यमिति ज्ञेयम् ।
गर्भजन्मजरामरणसंसारमहद्भयात् संतारयतीति ।
तस्मादुच्यते षडक्षरं तारकमिति ॥ ३ ॥
तारकजपफलम् -
य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते ।
स पाप्मानं तरति । स मृत्युं तरति ।
स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति ।
स वीरहत्यां तरति स सर्वहत्यां तरति ।
स संसारं तरति । स सर्वं तरति ।
अविमुक्तमाश्रितो भवति ।
स महान्भवति । सोऽमृतत्वं च गच्छति ॥ ४ ॥
रामस्य प्रणवार्थत्वम् -
अत्रैते श्लोका भवन्ति ।
अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ ५ ॥
प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ ६ ॥
श्रीरामसांनिध्यवशात् जगदाधारकारिणी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ७ ॥
सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता ।
प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ८ ॥ इति ॥
प्रणवतदर्थयाथात्म्यम् -
ओमित्येतदक्षरमिदं सर्वं तस्य उपव्याख्यानं
भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव ।
यच्चान्यत् त्रिकालातीतं तदपि ओङ्कार एव ।
सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ ९ ॥
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ १० ॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ११ ॥
यत्र सुप्तो न कंचन कामं कामयते
न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो
ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ १२ ॥
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामि
एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ १३ ॥
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं
नाप्रज्ञं न प्रज्ञानघनमदृश्यं अव्यवहार्यं
अग्राह्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं
एमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं
शिवं अद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १४ ॥
प्रत्यग्ब्रह्मणोरेकीकरणम् -
सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः
सर्वाधिष्ठानसन्मात्रो निरस्त अविद्यातमोमोहोऽहमेवेति संभाव्याहम् ॥ १५ ॥
ओं तत् सद्यत् परं ब्रह्म रामचन्द्रश्चिदात्मकः ।
सोऽहमोन्तद्राम भद्रपरंज्योती रसोऽहमोम् ॥ १६ ॥
इत्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥ १७ ॥
रामज्ञानान्मुक्तिः -
सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥
य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ १९ ॥
इति द्वितीयः खण्डः ॥
बाह्यान्तराविमुक्तयाथात्म्यम् -
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं -
य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति ॥ १ ॥
स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्योऽयम् ।
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥ २ ॥
सोऽविमुक्तः कस्मि प्रतिष्ठित इति ॥ ३ ॥
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥ ४ ॥
का वै वरणा का च नासीति ॥ ५ ॥
जन्मान्तरकृतान् सर्वान् दोषान् वारयतीति तेन वरणा भवतीति ।
सर्वानिन्द्रियकृतान् पापान् नाशयतीति तेन नासी भवतीति ॥ ६ ॥
कतमं चास्य स्थानं भवतीति ॥ ७ ॥
भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥
सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद ॥ ८ ॥
मुमूर्षूणां शिवकृतरामतारकोपदेशः -
अथ तं प्रत्युवाच -
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः ।
मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥ ९ ॥
ततः प्रसन्नो भगवान् श्रीरामः प्राह शंकरम् ।
वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ १० ॥ इति ॥
अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ -
मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः ।
म्रियेत देही तज्जन्तोः मुक्तिं नातो वरान्तरम् ॥ ११ ॥ इति ॥
अथ स होवाच श्रीरामः -
क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः ।
कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ १२ ॥
अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये ।
अहं संनिहितस्तत्र पाषाणप्रतिमाऽऽदिषु ॥ १३ ॥
क्षेत्रेऽस्मिन् योऽर्चयेत् भक्त्या मन्त्रेणानेन मां शिव ।
ब्रह्महत्याऽऽदिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १४ ॥
त्वत्तो वा ब्रह्मणो वाऽपि ये लभन्ते षडक्षरम् ।
जीवन्तो मन्त्रसिद्धाः स्युः मुक्ता मां प्राप्नुवन्ति ते ॥ १५ ॥
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ १६ ॥
इति श्रीरामचन्द्रेणोक्तम् ॥
रामसाक्षात्कारप्रदाः मंत्राः -
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाच -
अथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति ।
स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति ।
स होवाच याज्ञवल्क्यः -
पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति -
विश्वरूपधरं विष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥
मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् ।
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् अद्वैतपरमानन्द आत्मा यत्परं ब्रह्म
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्चाखण्डैकरसात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च ब्रह्मानन्दामृतं
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् तत् तारकं ब्रह्म
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो ब्रह्मा विष्णुर्महेश्वरो
यः सर्वदेवात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये सर्वे वेदाः साङ्गाः सशाखाः
सेतिहासपुराणाः भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो जीवात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो सर्वभूतान्तरात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये देवासुरमनुष्यादिभावाः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये मत्स्यकूर्माद्यवताराः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च प्राणः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ११ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् योऽन्तःकरणचतुष्टयात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च यमो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्चान्तको
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च मृत्युः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्चामृतं
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यानि च पञ्चमहाभूतानि
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः स्थावरजङ्गमात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये पञ्चाग्नयो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याः सप्त महाव्याहृतयो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या विद्या
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २१ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या सरस्वती
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या लक्ष्मी
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या गौरी
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् या जानकी
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च त्रैलोक्यं
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सूर्यो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सोमो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २८ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यानि च नक्षत्राणि
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ २९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये च नवग्रहा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ लोकपालाः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३१ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चाष्टौ वसवो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये चैकादश रुद्राः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ये च द्वदिशादित्याः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यच्च भूतं भव्यं भविष्यत्
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् ब्रह्माण्डस्यान्तर्बहिर्व्याप्नोति
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो हिरण्यगर्भो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३७ ॥
ॐ यो वै श्रीरामचन्द्रः स भगवान् यश्च ब्रह्माण्डस्यान्तर्बहिर्व्याप्नोति विराङ् भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ ३६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याश्चोंकारो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३९ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् याश्चतस्रोऽर्धमात्राः
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४० ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः परमपुरुषो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४१ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च महेश्वरो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४२ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यश्च महादेवो
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४३ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः ॐ नमो भगवते वासुदेवाय
यो महाविष्णुः भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४४ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः परमात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४५ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यो विज्ञानात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४६ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् यः सच्चिदानन्दैकरसात्मा
भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ४७ ॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवान् अद्वैतपरमानन्द आत्मा ।
यः सच्चिदानन्द अद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ इति ॥
तान् ब्रह्माब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति ।
तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति ।
सोऽमृतत्वं गच्छतीति महोपनिषत् ॥
इति चतुर्थोखण्डः ॥
रामषडक्षरमाहात्म्यम् -
अथ हैनं भारद्वाजो याज्ञवल्क्यं उपसमेत्योवाच
श्रीराममन्त्रराजस्य माहात्म्यं अनुब्रूहीति । ॥ १ ॥
स होवाच याज्ञवल्क्यः ।
स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः ।
तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ २ ॥
अखण्डैकरसानन्दः तारकब्रह्मवाचकः ।
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ ३ ॥
नमःपदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ।
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ४ ॥ इति ॥
य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते ।
सोऽग्निपूतो भवति । स वायुपूतो भवति ।
स आदित्यपूतो भवति । स सोमपूतो भवति ।
स ब्रह्मपूतो भवति । स विष्णुपूतो भवति ।
स रुद्रपूतो भवति । सर्वैर्देवैर्ज्ञातो भवति ।
स सर्वक्रतुभिरिष्टवान् भवति । तेन इतिहासपुराणानां रुद्राणां
शतसहस्राणि जप्तानि फलानि भवन्ति ।
प्रणवानां अयुतकोटिजपा भवन्ति ।
दश पूर्वान् दशोत्तरान् पुनाति ।
स पङ्क्तिपावनो भवति । स महान् भवति ।
सोऽमृतत्वं च गच्छति ॥ ॥ ५ ॥
मंत्रराजमाहात्म्यप्रतिपादकश्लोकाः -
अत्रैते श्लोका भवन्ति ।
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः ।
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ६ ॥
गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः ।
मन्त्रस्तेष्वप्यनायास फलदोऽयं षडक्षरः ॥ ७ ॥
षडक्षरोऽयं मन्त्रः स्यात् सर्वाघौघनिवारणः ।
मन्त्रराज इति प्रोक्तः सर्वेषां उत्तमोत्तमः ॥ ८ ॥
कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ।
सर्वं दहति निःशेषं तूलाचलमिवानलः ॥ ९ ॥
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ।
स्वर्णस्तेय सुरापान गुरुतल्पायुतानि च ॥ १० ॥
कोटिकोटिसहस्राणि उपपातकजान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ११ ॥
भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः ।
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १२ ॥
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ १३ ॥
ग्राम्यारण्यपशुघ्नत्वं संचितं दुरुतं च यत् ।
मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १४ ॥
अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् ।
सर्वं विलीयते राम मन्त्रस्यास्यैव कीर्तनात् ॥ १५ ॥
श्रोत्रियस्वर्णहरणात् यच्च पापमुपस्थितम् ।
रत्ना्देश्चापहारेण तदप्याशु विनाशयेत् ॥ १६ ॥
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् ।
संचिनोति नरो मोहात् यद्यत् तदपि नाशयेत् ॥ १७ ॥
गत्वापि मातरं मोहात् अगम्याश्चैव योषितः ।
उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १८ ॥
महापातकपापिष्ठ सङ्गत्या संचितं च यत् ।
नाशयेत् तत्कथालाप शयनासनभोजनैः ॥ १९ ॥
पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् ।
तदनुष्ठानमात्रेण सर्वं एतद्विलीयते ॥ २० ॥
यत्प्रयागादितीर्थोक्त प्रायश्चित्तशतैरपि ।
नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ २१ ॥
पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ।
बुद्धिपूर्वमघं कृत्वा तदप्याशु विनाशयेत् ॥ २२ ॥
कृच्छ्रैस्तप्तपराकाद्यैः नानाचान्द्रायणैरपि ।
पापं च नापनोद्यं यत् तदप्याशु विनाशयेत् ॥ २३ ॥
आत्मतुल्यसुवर्णादि दानैर्बहुविधैरपि ।
किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २४ ॥
अवस्थात्रितयेष्वेवं बुद्धिपूर्वमघं च यत् ।
तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २५ ॥
अवस्थात्रितयेष्वेवं मूलबन्धमघं च यत् ।
तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २६ ॥
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः ।
स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २७ ॥
येषु येष्वपि देशेषु रामभद्र उपास्यते ।
दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २८ ॥
शान्तः प्रसन्नवदनो नक्रोधो भक्तवत्सलः ।
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २९ ॥
सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ।
ददात्यायुष्यमैश्वर्यं अन्ते विष्णुपदं च यत् ॥ ३० ॥
तदेतदृचाभ्युक्तम् -
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद् विदुस्त इमे समासते ॥ ३१ ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ ३२ ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ३३ ॥
ॐ सत्यमित्युपनिषत् ॥ ३४ ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥
इति रामतापिन्युपनिषत्समाप्ता॥
Sanskrit Wikisource, page "रामतापिन्युपनिषत्", revision 409976.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
तुलसीदास रचित श्रीराम की स्तुति, छह छंदों और समापन सोरठा सहित। रामनवमी और राम पूजा में गाई जाती है।
Sanskrit text from Sanskrit Wikisource.