रामरहस्योपनिषत्
उपनिषद् · 🏹 श्री राम · Sanskrit · ⏱ 16 min
अन्य नाम · Also known as रामरहस्योपनिषत्
Sanskrit text from Sanskrit Wikisource.
कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।
प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ रहस्यं रमतपतं वासुदेवं च मुद्गलम् ।
शाण्डिल्यं पैङ्गलं भिक्षुं महच्च्हारीरकं शिखा ॥ १॥
सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।
प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ २॥
वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् ।
पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ ३॥
चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च ।
सर्वेषु विष्ण्वभिधानेषु विघ्नसूर्येशशक्तिषु ।
एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥ ४॥
हनूमान्होवाच ॥
भो योगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च ।
श्रुणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् ॥ ५॥
एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् ।
राम एव परं ब्रह्म तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ६॥
वायुप्त्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता
हनूमन्तं पप्रच्च्हुः रामस्याङ्गानि नो ब्रूहीति ।
हनूमान्होवाच । वायुपुत्रं विघ्नेशं वाणीं दुर्गां
क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं
वायुदेवं वाराहं तत्सर्वान्त्समात्रान्त्सीतं लक्ष्मणं
शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं
जाम्बवन्तं प्रणवमेतानि रामस्याङ्गानि जानीथाः ।
तान्यङ्गानि विना रामो विघ्नकरो भवति ।
पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्च्हुः ।
आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः
कथं स्यादिति । स होवाच श्रीराम एवोवाचेति । येषामेव
षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।
केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य
यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् । तस्य
प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च
ऋषिश्च्हन्दो देवता तत्तद्वर्णावर्णावस्थानं
स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवमन्त्रद्द्विगुणं
जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति
रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥
विभीषण उवाच ॥
सिंहासने समासीनं रामं पौलस्त्यसूदनम् ।
प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् । । ७॥
रघुनाथ महाबाहो केवलं कथितं त्वया ।
अङ्गानां सुलभं चैव कथनीयं च सौलभम् ॥ ८॥
श्रीराम उवाच । अथ पञ्च दण्डकानि पितृघ्नो
मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो
यो मम षण्णवतिकोटिनामानि जपति स तेभ्यः पापेभ्यः
प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ।
पुनरुवाच विभीषणः । तत्राप्य शक्तोऽयं किं करोति ।
स होवाचेमम् । कैकसेय पुरश्चरणविधावशक्तो
यो मम महोपनिषदं मम गीतां मन्नामसहस्रं
मद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं
नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं
सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां
नित्यं स्तौति तत्सदृशो भवेन्न किं भवेन्न किम् ॥
इति प्रथमोऽध्यायः ॥ १॥
सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य
मन्त्रग्रामं नो ब्रूहीति ।
हनूमान्होवाच ।
वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् ।
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ १॥
ब्रह्मा मुनिः स्याद्गायत्रं च्हन्दो रामस्य देवता ।
दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्यात्मनो मनोः ॥ २॥
बीजशक्त्यादि बीजेन इष्टार्थे विनियोजयेत् ।
सरयूतीरमन्दारवेदिकापञ्कजासने ॥ ३॥
श्यामं विरासनासीनं ज्ञानमुद्रोपशोभितम् ।
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४॥
अवेक्षमाणमात्मानमात्मन्यमिततेजसम् ।
शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥ ५॥
चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् ।
वह्निर्नारायणो नाड्यो जाठरः केवलोऽपि च ॥ ६॥
द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः ।
एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥ ७॥
तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ,
त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥ ८॥
द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ।
ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥ ९॥
सप्रतिष्ठौ रमौ वायौ हृत्पञ्चार्णो मनुर्मतः ।
विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्च्हन्दोऽस्य देवता ॥१०॥
रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् ।
भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥ ११॥
षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम् ।
मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ १२॥
लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ।
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ १३॥
जटाभारलसच्च्हीर्षं श्यामं मुनिगणावृतम् ।
लक्ष्मणेन धृतच्च्हत्रमथवा पुष्पकोपरि ॥ १४॥
दशाअस्यमथनं शान्तं ससुग्रीवविभीषणम् ।
एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥ १५॥
स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याः पञ्चवर्णकाः ।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ १६॥
पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् ।
लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥ १७॥
श्रीमायामन्मथैकैक बीजाद्यन्तर्गतो मनुः ।
चतुर्वर्णः स एव स्यात्षड्वर्णो वाञ्च्हितप्रदः ॥ १८॥
स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् ।
अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥ १९॥
ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिरेव च ।
अगस्त्यश्च शिवः प्रोक्ता मुनयोऽक्रमादिमे ॥ २०॥
च्हन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता ।
अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ॥ २१॥
च्हन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता ।
बीजशक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥ २२॥
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यूरुषु पादयोः ।
बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैवा षडङ्गकम् ॥ २३॥
कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्तांबुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ २४॥
श्रीरामश्चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा ।
सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥ २५॥
तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः ।
तारं रामश्चतुर्थ्यतः क्रोडास्त्रं वह्नितल्पगा ॥ २६॥
अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् ।
पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥ २७॥
गायत्रं च्हन्द इत्यस्य देवता राम एव च ।
तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥ २८॥
षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् ।
तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् ॥ २९॥
ग्लौंमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् ।
शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥ ३०॥
ऋषिः सदाशिवः प्रोक्तो गायत्रं च्हन्द उच्यते ।
शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ ३१॥
दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया ।
रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् ।
भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ३२॥
रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् ।
पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥ ३३॥
ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः ।
बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् ॥ ३४॥
स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः ।
पुनरष्टाक्षरस्याथ ब्रह्मगायत्र राघवाः ॥ ३५॥
ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् ।
तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥ ३६॥
केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा
रामं पार्वणचन्द्रकोटिसदृशच्च्हत्रेण वै राजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३७॥
किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृता
किंचिल्लोभवितानमात्रविफलैः संसारदुःखावहैः ।
एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः
श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥ ३८॥
एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः ।
रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः ॥ ३९॥
नवार्णो मन्त्रराजः स्याच्च्हेषं षड्वर्णवन्न्यसेत् ।
जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥ ४०॥
दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्टफलप्रदः ।
दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥ ४१॥
च्हन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः ।
आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ ४२॥
शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि ।
नाभूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ ४३॥
अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे ।
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ ४४॥
सिंहासने समासीनं पुष्पकोपरि राघवम् ।
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ४५॥
संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ।
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥ ४७॥
रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी ।
दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥ ४८॥
च्हन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ।
शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥ ४९॥
तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।
दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः ॥ ५०॥
शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः ।
द्वादशाक्षरमन्त्रस्य श्रीराम ऋषिरुच्यते ॥ ५१॥
जगती च्हन्द इत्युक्तं श्रीरामो देवता मतः ।
प्रणवो बीजमित्युक्तः क्लीं शक्तिर्ह्रीं च कीलकम् ॥ ५२॥
मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् ।
तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥ ५३॥
रामं क्लीं वह्निजायान्तं मन्त्रोयं द्वादशाक्षरः ।
ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ ॥ ५४॥
अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् ।
च्हन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना ॥ ५५॥
श्रीरामेति पदं चोक्त्वा जयराम ततः परम् ।
जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥ ५६॥
त्रयोदशार्ण ऋष्यादि पूर्ववत्सर्वकामदः ।
पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥ ५७॥
तारादिसहितः सोऽपि स चतुर्दशवर्णकः ।
त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् ॥ ५८॥
स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः ।
नमश्च सीतापतये रामायेति हनद्वयम् ॥ ५९॥
ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।
तस्यागस्त्यऋषिश्च्हन्दो बृहती देवता च सः ॥ ६०॥
रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् ।
द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् ॥ ६१॥
तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः ।
तारं नमो भगवते रां ङेन्तं महा ततः ॥ ६२॥
पुरुषाय पदं पश्चाद्धृदन्तोऽष्टदशाक्षरः ।
विश्वामित्रो मुनिश्च्हन्दो गायत्रं देवता च सः ॥ ६३॥
कामादिसहितः सोऽपि मन्त्र एकोनविंशकः ।
तारं नामो भगवते रामायेति पदं वदेत् ॥ ६४॥
सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् ।
वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः ॥ ६५॥
तारं नमो भगवते रामाय सकलं वदेत् ।
आपन्निवारणायेति वह्निजायां ततो वदेत् ॥ ६६॥
एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः ।
तारं रमा स्वबीजं च ततो दाशरथाय च ॥ ६७॥
ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।
ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥ ६८॥
तारं नमो भगवते वीररामाय संवदेत् ।
कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९॥
त्रयोविंशाक्षरोमन्त्रः सर्वशत्रुनिबर्हणः ।
विश्वामित्रो मुनिः प्रोक्तो गायत्रीच्हन्द उच्यते ॥ ७०॥
देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः ।
मूलमन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥ ७१॥
शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् ।
वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥ ७२॥
तारं नमो भगवते श्रीरामाय पदं वदेत् ।
तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् ॥ ७३॥
नमस्तारात्मको मन्त्रश्चतुर्विंशतिमन्त्रकः ।
बीजादिकं यथा पूर्वं सर्वं कुर्यात्षडर्णवत् ॥ ७४॥
कामस्तारो नतिश्चैव ततो भगवतेपदम् ।
रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥ ७५॥
जनवश्यकरायेति स्वाहा कामात्मको मनुः ।
सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥ ७६॥
आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः ।
अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः ॥ ७७॥
तारं नमो भगवते रक्षोघ्नविशदाय च ।
सर्वविघ्नान्त्समुच्चार्य निवारय पदद्वयम् ॥ ७८॥
स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः ।
अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः ॥ ७९॥
आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मको मनुः ।
अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥ ८०॥
रामभद्र महेश्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥ ८१॥
आनुष्टुभ ऋषी रामश्च्हन्दोऽनुष्टुप्स देवता ।
रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् ॥ ८२॥
पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् ।
शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥ ८३॥
नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते ।
चापबाणधरं श्यामं ससुग्रीवबिभीषणम् ॥ ८४॥
हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ।
रामचन्द्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् ॥ ८५॥
वदेद्दाशरथायेति विद्महेति पदं ततः ।
सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥ ८६॥
धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात्
तारादिरेषा गायत्री मुक्तिमेव प्रयच्च्हति ॥ ८७॥
मायादिरपि वैदुष्ट्यं रामादिश्च श्रियःपदम् ।
मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥ ८८॥
पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः ।
चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् ॥ ८९॥
बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् ।
तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥ ९०॥
रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः ।
प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥ ९१॥
बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः ।
प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥ ९२॥
ऋषिश्च्हन्दो देवतादि ब्रह्मानुष्टुभराघवाः ।
सप्तर्तुसप्तदश षड्रुद्रसंख्यैः षडङ्गकम् ॥ ९३॥
ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् ।
श्रियं सीतां चतुर्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥ ९४॥
जनकोऽस्य ऋषिश्च्हन्दो गायत्री देवता मनोः ।
सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥ ९५॥
कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् ।
दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥ ९६॥
स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ।
ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि शोभिताम् ॥ ९७॥
लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः ।
अगस्त्यऋषिरस्याथ गायत्रं च्हन्द उच्यते ॥ ९८॥
लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि ।
नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये ॥ ९९॥
दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् ।
द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥ १००॥
धनुर्बाणधरं देवं रामाराधनतत्परम् ।
भकारं तु समुद्धृत्य भरताय नमोन्तकः ॥ १०१॥
अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् ।
भरतं श्यामलं शान्तं रामसेवापरायणम् ॥ १०२॥
धनुर्बाणधरं वीरं कैकेयीतनयं भजे ।
शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोन्तकः ।
ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे ॥ १०३॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
लवणासुरहन्तारं सुमित्रातनयं भजे ॥ १०४॥
हृं हनुमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः ।
रामचन्द्र ऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥ १०५॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति॥ १०६॥
इति रमरहस्योपनिषदि द्वितीयोऽध्यायः ॥ २॥
सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
आञ्जनेय महाबल पूर्वोक्तमन्त्राणां
पूजापीठमनुब्रूहीति । हनुमान् होवाच ।
आदौ षट्कोणम् । तन्मध्ये रामबीजं सश्रीकम् ।
तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे
षष्ठ्यन्तं साधकम् । पार्श्वे दृष्टिबीजे तत्परितो
जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मुखोन्मुखाभ्यां
प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु
षट्कोणेषु दीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण ।
रां रीं रूं रैं रौं रः इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् ।
षट्कोणपार्श्वे रमामायाबीजे । कोणाग्रे वाराहं हुमिति ।
तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं
साष्टपत्रम् । तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं
मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् ।
तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् ।
तेषु दलेषु नारायणाष्टाक्षरो मन्त्रः । तद्दलकपोलेषु
श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु
वासुदेवद्वादशाक्षरो मन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् ।
ततो वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट्
नतिसहितरामद्वादशाक्षरम् । तद्दलकपोलेषु मायाबीजम् ।
सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमं श्रुं
ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु
नृसिंहमन्त्रराजानुष्टुभमन्रः । तद्दलकपोलेश्वष्टव
स्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोन्ता
श्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो
रेखात्रययुक्तं भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् ।
अष्टनागैरधिष्ठितम् । चतुर्दिक्षु नारसिंहबीजम् ।
विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदं
मोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं
भवति । तद्दशावरणात्मकं भवति । षट्कोणमध्ये
साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः
प्रथमा वृतिः । अष्टदलमूले आत्माद्यावरणम् ।
तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्टदलमूले
घृष्टाद्यावरणम् । तदग्रे हनूमदाद्यावरणम् ।
द्वादशदलेषु वसिष्ठाद्यावरणम् । षोडशदलेशु
नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् ।
भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् ।
एवमभ्यर्च्य मनुं जपेत् ॥
अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां
पूजापीठमुच्यते । आदौ षट्कोणम् । तन्मध्ये स्वबीजम् ।
तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं
शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु
षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु ।
तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।
ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया
मालामनुवर्णान् । तद्दलकपोलेषु षोडश स्वराः ।
ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरम्
साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे ।
एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् ।
अङ्गैः प्रथमा वृतिः । मध्ये रामम् । वामभागे
सीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले
हनुमदादिद्वितीयावरणम् । घृष्ट्यादितृतीयावरणम् ।
इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधन
पूर्वकं दशाक्षरादिमन्त्रं जपेत् । ॥
इति रामरहस्योपनिषदि तृतीयोऽध्यायः ॥ ३॥
सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति ।
हनूमान्होवाच ।
नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् ।
अथवा पायसाहारो हविष्यान्नाद एव वा ॥ १॥
षड्सैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् ।
वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥ २॥
भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् ।
स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥ ३॥
गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः ।
सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः ॥ ४॥
श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् ।
व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् ॥ ५॥
तुलसीपारिजातश्रीवृक्षमूलादिकस्थले ।
पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६॥
मातृकामालया मन्त्री मनसैव मनुं जपेत् ।
अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥ ७॥
तर्पयेत्तद्दशांशेन पायसात्तद्दशांशतः ।
जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥ ८॥
ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् ।
ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः ॥ ९॥
अणिमादिर्भजत्येनं यूनं वरवधूरिव ।
ऐहिकेषु च कार्येषु महापत्सु च सर्वदा ॥ १०॥
नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।
ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥ ११॥
यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः ।
तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥ १२॥
वाञ्च्हितार्थं प्रदास्यामि भक्तानां राघवस्य तु ।
सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः ॥ १३॥
इति रामरहस्योपनिषदि चतुर्थोऽध्यायः ॥ ४॥
सनकाद्या मुनयो हनूमन्तं पप्रच्च्हुः ।
श्रीराममन्त्रार्थमनुब्रूहीति । हनूमान्होवाच ।
सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः ।
एकधाय द्विधा त्रेधा चतुर्धा पञ्चधा तथा ॥ १॥
षट्सप्तधाष्टधा चैव बहुधायं व्यवस्थितः ।
षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥ २॥
श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते ।
नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा ।
सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः ।
रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥ ३॥
सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते ।
व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ॥ ४॥
व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् ।
रेफो ज्योतिर्मये तस्मात्कृतमाकरयोजनम् ॥ ५॥
मकारोऽभ्युदयार्थत्वात्स मायेति च कीर्त्यते ।
सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥ ६॥
सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् ।
ज्योतिस्तस्य शिखा रूपं नादः सप्रकृतिर्मतः ॥ ७॥
प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ ।
बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥ ८॥
अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् ।
यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ ९॥
तथैव रामबीजस्थं जगदेतच्चराचरम् ।
बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते ॥ १०॥
बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते ।
मुक्तिदं साधकानां च मकारो मुक्तिदो मतः ॥ ११॥
मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।
आद्यो र तत्पदार्थः स्यान्मकरस्त्वंपदार्थवान् ॥ १२॥
तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः ।
नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥ १३॥
असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् ।
तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः ॥ १४॥
भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते ।
मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् ॥ १५॥
मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् ।
प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः ।
राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः ॥ १६॥
य इमामुपनिषदमधीते सोऽग्निपूतो भवति ।
स वायुपूतो भवति । सुरापानात्पूतो भवति ।
स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यापूतो भवति ।
स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ।
तदेतदृचाभ्युक्तम् ।
सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥
ॐ याऽयोध्या सा सर्वबैकुण्ठानामेव मूलाधारा प्रकृतेः परा तत्सद् ब्रह्ममयी विरजोत्तरा दिव्यरत्नकोशाढ्या तस्या नित्यमेव श्रीसीतारामयोर्विहारस्थलमस्ति।।
' ॐ सत्यमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति श्रीरमरहस्योपनिषत्समाप्ता ॥
Sanskrit Wikisource, page "रामरहस्योपनिषत्", revision 408336.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
तुलसीदास रचित श्रीराम की स्तुति, छह छंदों और समापन सोरठा सहित। रामनवमी और राम पूजा में गाई जाती है।
Sanskrit text from Sanskrit Wikisource.