🙏

सनातनदेवीसूक्तम्

Sanatanadevisuktam

स्तोत्र · 🌺 देवी · Sanskrit · ⏱ 3 min

अन्य नाम · Also known as सनातनदेवीसूक्तम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

या परमेश्वरी सर्वभूतानां या च देवे व्यवस्थिता ।
चण्डिकारूपेण सा देवि मम पापं व्यपोहतु ॥ १ ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम् ॥ २ ॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ३ ॥

अतिसौम्या अतिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ४ ॥

या देवी सर्वभूतेषु विष्णुमात्रेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५ ॥

या देवी सर्वभूतेषु चेतनेति अभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६ ॥

या देवी सर्वभूतेषु परावाणीरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७ ॥

या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८ ॥

या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ९ ॥

या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १० ॥

या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११ ॥

या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १२ ॥

या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १३ ॥

या देवी सर्वभूतेषु ईशस्मृतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १४ ॥

या देवी सर्वभूतेषु दयारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १५ ॥

या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १६ ॥

या देवी सर्वभूतेषु तृप्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १७ ॥

या देवी सर्वभूतेषु तपश्चर्यारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १८ ॥

या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १९ ॥

वागादि अगम्या महती त्रिपुरा सर्वकारणम् ।
तस्या यत् परमं रुपं सर्वाSन्तरतया स्थितम् ॥ २० ॥

योगिश्रेष्ठा विजानन्ति बहिर्देशे नेतरे ।
तस्या यत् अपरं रूपं स्थूलं तत् सर्वगोचरम् ॥ २१ ॥

सा स्थूलरुपा अष्टादशभुजा सुरम्या सिंहसंस्थाना ।
ईहाशून्या अर्थितपदा स्वर्णवर्णा एधमाना ॥ २२ ॥

अनुत्तरा अनघा अनन्ता अद्भुतरूपा ।
अतिलोकचरित्रा राका अतिशुभ्रप्रदा ॥ २३ ॥

सकलचराचरवपुराद्या त्वं स्वाSSश्रितलोका लोकगणा ।
नाSन्यत्किञ्चित्तव शरणं स्वं विभवं श्रित्वा ननु भासि ॥ २४ ॥

देवि प्रपन्नार्तिहरे प्रसीद, प्रसीद मातर्जगतोSखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ २५ ॥

स्रोत · Source

Sanskrit Wikisource, page "सनातनदेवीसूक्तम्", revision 32988.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयदेवी पूजा बुक करें