हेमकामाक्षीदण्डकम्
स्तोत्र · 🌺 देवी · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as हेमकामाक्षीदण्डकम्
Sanskrit text from Sanskrit Wikisource.
॥ श्रीहेमकामाक्षीदण्डकम् ॥
ओंकारात्मक-भासि-रूप्यवलये संशोभि हेमं महः
बिभ्रत्केलिशुकं त्रयीकलगिरं दक्षेण हस्तेन च।
वामे लंबकरं त्रिभङ्गि-सुभगं दीनार्तनम्रत्पदं
स्वान्ते दीव्यतु मे कटाक्ष-शुभदं मन्दस्मितोदारकम् ॥
दक्षिणे कामजिद्यस्याः चूडायां कामवल्लभः।
वासः कामायुधस्याधः कामाक्षीं तां नमाम्यहम् ॥
कामान्धा तिलकं यस्याः काममाली च पुत्रकः।
कामान्धोपम-वाणीं तां कामाक्षीं प्रणमाम्यहम् ॥
गाङ्गमाता तु या देवी गाङ्गमाला-विराजिता।
गां गता रक्षितुं मर्त्यान् गाङ्गदेहां नमामि ताम् ॥
जयैकाम्रेश्वरार्धाङ्गि जय तञ्जा-विलासिनि।
जय बङ्गारुकामाक्षि जय सर्वार्थ-दायिनि ॥
जय जननि सुरासुरस्तोम-संसेव्यमानातिपुण्यप्रदेश-प्रमुख्यामधिष्ठाय
काञ्चीं स्वमूलस्वरूपेण भक्तेष्ट-सन्दानचिन्तामणे! मञ्जुसंभाषणे!
भामणे!
मूलदेवीतृतीयाक्षिसञ्जात-तेजोनुरूपां सुवर्णां सुमूर्तिं विधायाम्ब!
वणीपतिस्त्वां ध्रुवे चैकदेशे प्रतिष्ठाप्य काञ्च्यां
विवाहोत्सवं चारु निर्वृत्य चैकाम्रनाथेन
कामाक्षि! संयोजयामास चाकाशभूपालमेवात्र कर्तुं महं ते सदा ॥
कामकोटी सुपीटावमर्देन नष्टेक्षणः पद्मभू-श्चक्रपूजां तथाराधनं ते
स्वनुष्ठय चक्षुः प्रकाशं प्रपेदे भृशं ॥
यवनजनित-घोरकर्नाटकानीक-काले नु
दुर्वाससश्शिष्यमुख्यैर्-वरस्थानिकै-राशु शेञ्चिं
प्रपद्याम्ब! सन्तानभूपालसंपूजिताऽभूः॥
ततश्चोड्यार्पालय-स्वामिना त्वं समाराधिताऽऽसी-श्चिरायाऽथ
गत्वा बहून् ग्रामदेशान्मुदा हाटकक्षेत्र-संशोभमाना सुदीर्घास्समा-स्तत्र
नीत्वाऽथ, तञ्जापुराधीश-भाग्यप्रकर्षेण
संप्राप्य तञ्जां च पूतां, सुहृत्तूलजेन्द्राख्यराजेनसंस्थापिताऽस्मिन्
शुभे मन्दिरे रामकृष्णालयाभ्यन्तराभासि तेन प्रदत्तां भुवं चापि
लब्ध्वाऽत्र दुर्वाससाऽऽदिष्ट-
सौभाग्यचिन्तामणिप्रोक्तपूजां नु कुर्वन्ति ते साधवः॥
शरभमहिप-वर्धितानेकभागं च ते मन्दिरं
काञ्चीपीठाधिनाथप्रकाण्डैरथो धर्मकर्तृ-
प्रमुख्यैश्च देवालयानल्पवित्तव्ययेनातिनूत्नीकृतं तत् ॥
श्शाङ्कावतंसे, सुगत्या जितोन्मत्तहंसे, रुचातीतहंसे, नतांसे ॥
तुलामीनमासात्तसत्फल्गुनीऋक्ष शोभादिनेष्वत्र जन्मोद्वहाद्युत्सवं,
शारदे रात्रिकाले प्रमुख्योत्सवं
चातिसंभारपूर्वेण दिव्याभिषेकेण संभावन्त्यम्ब!
ते भक्तवृन्दाः॥सदानन्दकन्दे! सुमातङ्गनन्दे!
अच्छकुन्दाभदन्ते! शुभे! गन्धमार्जाररेतो-ऽभिसंवासिते!
जानकीजानि-संवन्दिते! जामदग्न्येन सन्नन्दिते!
मधुर-सुकविमूकसंश्लाधिते! पूज्यदुर्वास-साराधिते!
धौम्यसद्भक्त-संभाविते! शङ्कराचार्य-संसेविते!
काञ्चिपीठेश्वरैः पूजिते! श्यामशास्त्रीति-विख्यात-सङ्गीतराट्-कीर्तिते!
तञ्जपूर्वासि-सौभाग्यदात्रीं पवित्रीं सदा भावये त्वां वराकाः ॥
कृपासान्द्र-दृष्टिं कुरुष्वाम्ब! शीघ्रं मनः
शुद्धिमच्छां च देह्यात्मविद्यां क्षमस्वापराधं
मया यत्कृतं ते, प्रयच्छात्र-सौख्यं परत्रापि नित्यं,
विधेह्यङ्घ्रिपद्मे दृढां भक्तिमारात्,
नमस्ते शिवे देहि मे मङ्गलं, पाहि कामाक्षि मां, पाहि कामाक्षि माम् ॥
॥ ॐ तत्सत् ॥
Sanskrit Wikisource, page "हेमकामाक्षीदण्डकम्", revision 90925.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.