चिदम्बरं श्रीनटराजस्तुती
स्तोत्र · 🌺 देवी · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as चिदम्बरं श्रीनटराजस्तुती
Sanskrit text from Sanskrit Wikisource.
नमस्ते रूद्र मन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥ १॥
याते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ।
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥ २॥
सहस्रपाणये तुभ्यं मीढुष्टमाय ते नमः ।
कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥ ३॥
नमस्ते चात्तशस्त्राय नमस्ते शूलपाणये ।
हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥ ४॥
नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ।
पशूनां पतये तुभ्यं पथीनां पतये नमः ॥ ५॥
पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ।
आतताविस्वरूपाय वनानां पतये नमः ॥ ६॥
रोहिताय स्तपतये वृक्षाणां पतये नमः ।
नमस्ते मन्त्रिणे साक्षात् कक्षाणां पतये नमः ॥ ७॥
ओषधीनां च पतये नमः साक्षात्परात्मने ।
उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥ ८॥
सत्वानां पतये तुभ्यं घनानां पतये नमः ।
सहमानाय शान्ताय शङ्कराय नमो नमः ॥ ९॥
आधीनां पतये तुभ्यं व्याधीनं पतये नमः ।
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥ १०॥
स्तेनानां पतये तुभ्यं धनानां पतये नमः ।
तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥ ११॥
वञ्चते परिवञ्चते स्तायूनां पतये नमः ।
नमो निचेरवे तुभ्यं अरण्यानां पतये नमः ॥ १२॥
उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ।
विस्तृताय नमस्तुभ्यं आसीनाय नमोनमः ॥ १३॥
शयनाय नम्स्तुभ्यं सुषुप्ताय नमो नमः ।
प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥ १४॥
सभारूपाय ते नित्यं सभायाः पतये नमः ।
नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥ १५॥
॥ इति सूतसंहितायां मुक्तिकाण्डे सभापतिस्तुतिः सम्पूर्णम् ॥
Sanskrit Wikisource, page "चिदम्बरं श्रीनटराजस्तुती", revision 95218.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.