🙏

मातृपञ्चकम्

Matra Pancakam

स्तोत्र · 🌺 देवी · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as मातृपञ्चकम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

अथ श्री मातृपञ्चकम् ।

मुक्तामणि त्वं नयनं ममेति
राजेति जीवेति चिर सुत त्वम् ।
इत्युक्तवत्यास्तव वाचि मातः
ददाम्यहं तण्डुलमेव शुष्कम् ॥ १॥

अंबेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्द
इति जनन्यै अहो रचितोऽयमञ्जलिः ॥ २॥

आस्तं तावदियं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी ।
एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमः
दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ ३॥

गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥

न दत्तं मातस्ते मरणसमये तोयमपिवा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्त्वा मातस्ते मरणसमये तारकमनु
रकाले संप्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५॥

इति श्रीमत् शङ्कराचार्य विरचितं मातृपञ्चकम् ।

स्रोत · Source

Sanskrit Wikisource, page "मातृपञ्चकम्", revision 201603.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयदेवी पूजा बुक करें