विराटपर्व

अध्यायः ७४

Virata Parva (Sanskrit) · Adhyaya 74
अक्षर का आकार

0

वैशंपायन उवाच।

ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः।
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ।।

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः।
अभिपन्ना महाभागा भ्राजमाना महारथाः ।।

विराटस्य सभां प्राप्य भूमिपालासनेषु ते ।
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ।।

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः।
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ।।

गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि ।
आजगाम सभां राजा उत्तरेण सह प्रभो ।।

स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव।
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्।

किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः।
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ।।

अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् ।
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ।।

स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः।
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ।।

वैशंपायन उवाच।

परिहासेच्छया राज्ञो विराटस्य निशम्य तत्।
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ।।

इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति।
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ।।

एष विग्रहवान्धर्म एष वीर्यवतां वरः।
एष बुद्ध्याधिको लोके तपसां च परायणम् ।।

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे।
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ।।

न देवा नासुराः केचिन्न मनुष्या न राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ।।

दीर्घदर्शी महातेजाः पारैजानपदप्रियः।
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ।।

महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ।।

धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः ।
यथा मनुर्महातेजा लोकानां परिरक्षिता ।
एवमेव महातेजाः प्रजानुग्रहकारकः ।।

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ।।

संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः ।
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ।।

एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् ।
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ।।

त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम्।
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ।।

वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च।
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः।
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ।।

इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा।
सर्वे च नृप राजानं धनेश्वरमिवामराः ।।

एष सर्वान्महीपालान्करमाहारयत्तदा।
वैश्यानिव महाराज विवशान्स्ववशानपि ।।

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्।
उपजीवन्ति राजानमेनं सुचरितव्रताः ।।

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् ।
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ।।

एष धर्मे दमे चैव दाने सत्ये रतः सदा।
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ।।

श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः ।
रगणः सह कर्णेन सौबलेन च वीर्यवान् ।।

गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर।
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ।।

एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः ।
कथं नार्हति राजार्हमासनं पृथिवीपतिः ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः ।।