विराटपर्व

अध्यायः ७३

Virata Parva (Sanskrit) · Adhyaya 73
अक्षर का आकार

वैशंपायन उवाच।

प्रदाय वस्त्राणि किरीटमाली
विराटगेहे मुदितः सखीभ्यः ।
कृत्वा महर्तर्म तदाऽऽजिमध्ये
दिदृक्षया सोऽभिजगाम पार्थम् ।।

तं प्रेक्षमाणस्त्वथ धर्मराजं
पप्रच्छ पार्थोऽथ स भीमसेनम्।
किं धर्मराजो हि यथापुरं मां
मुखं प्रतिच्छाद्य न चाह किंचित् ।।

तमेवमुक्त्वा परिशङ्कमानं
दृष्ट्वाऽर्जुनं भीमसेनं च राजा।
तदाऽब्रवीत्तावभिवीक्ष्य राज-
न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ।।

मन्युं नियच्छन्नुपविष्ट आसम् ।।

शुभार्ह राष्ट्रं न खिलीकृतं भवे-
द्वयं तु यस्मिन्सुखिनोऽभवाम।
क्रुद्धे तु वीरे त्वयि चाप्रतीते
राजा विराटो न लभेत शर्म ।।

अजानता तेन च शौर्यमाजौ
छन्नस्य सत्रेण बलं च पार्थ।
इदं विराटेन मयि प्रयुक्तं
त्वां वीक्षमाणो न गतोस्मि हर्षम् ।।

वैशंपायन उवाच

तेनाप्रमेयेन महाबलेन
तस्मिंस्तथोक्ते शममास्थितेन।
तं भीमसेनो बलवानमर्षी
धनंजयं क्रुद्धमुवाच वाक्यम् ।।

न पार्थ नित्यं क्षमकालमाह
बृहस्पतिर्ज्ञानवतां वरिष्ठः ।
क्षमीह सर्वैः परिभूयतेसौ
यथा भुडङ्गो विषवीर्यहीनः ।।

विराटमद्यैव निहत्य शीघ्रं
सपुत्रपौत्रं सकुलं ससैन्यम्।
योक्ष्यामहे धर्मसुतं च राज्ये
अद्यैव शीघ्रं त्वरिरेष मात्स्यः ।।

अनेन पाञ्चालसुताऽथ कृष्णा
उपेक्षिता कीचकेनाभियुक्ता।
तस्मादयं नार्हति राजशब्दं
राजा भव त्वं नृप पार्थवीर्यात्।।

राजा कुरूणां च युधिष्ठिरोऽयं
मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि
पूर्णोदकं कुम्भमिवाश्मनीह ।।

अर्जुन उवाच।

भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्।
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्।
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ।।

भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ।।

तमब्रवीद्धर्मसुतो महात्मा
क्षमी वदान्यः कुपितं च भीमम्।
न प्रत्युपस्थास्यति चेत्सदारः
प्रसादने सम्यगथास्तु वध्यः ।।

न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ।।

श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि।
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ।।

विराटो यदि तत्रस्थान्राजालङ्कारशोभितान्।
राजलक्षणसंपन्नान्यदि तत्र न मंस्यते।
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ।।

इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ।।

सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः ।
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ।।