विराटपर्व
अध्यायः ५८
वैशंपायन उवाच।
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा।
भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः ।।
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः ।
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ।।
रथनागाश्वकलिकं युयुजे युद्धकोविदः ।
अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् ।।
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि।
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ।।
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि।
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ।।
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः।
संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ।।
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् ।
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ।।
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् ।
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम् ।।
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः ।
तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् ।
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ।।
वैशंपायन उवाच।
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै ।
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ।।
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन्।
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे ।।
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ ।
विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च।
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ।।
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य ।
प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः ।।
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम्।
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ।।
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ।।
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम्।
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन ।।
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि।
शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम् ।।
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् ।
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ।।
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन ।
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ।।
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ।।
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः ।
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये।
सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः ।।
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ।।
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे।
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ।।
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः ।
एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ।।
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी ।
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ।।
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् ।
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने ।।
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः।
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः ।।
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् ।
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ।।
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ।
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः ।।
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात्।
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या ।।
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम्।
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः ।।
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् ।
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः ।।
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु।
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ।।
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम्।
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः ।।
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम्।
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा ।।
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः ।
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः ।।
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः।
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ।।
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः ।
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ।।
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान्।
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ।।
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् ।
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन ।।
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम्।
प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ।।
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ।।
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ।।
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम्।
कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया।
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि।
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ।।
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया ।
दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् ।।
धर्मपाशनिबद्धेन यन्मया मर्षितं तव।
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ।।
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम्।
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ।।
इदानीमेव तावत्त्वमपयातो रणान्मम।
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ।।
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् ।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ।।
कर्ण उवाच।
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर।
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ।।
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ।।
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा।
तथैव बद्धमात्मानमबद्ध इति मन्यसे ।।
न हि तावद्वने वासो यथोक्तं चरितस्त्वया ।
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ।।
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात्।
तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः ।।
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः।
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ।।
वैशंपायन उवाच।
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम्।
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ।।
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ।।
शरवर्षेण महता पर्जन्य इव वृष्टिमान्।
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ।।
जिघांसुः समरे कर्णं विससर्ज शरान्बहून्।
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ।।
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान्।
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं ।।
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः ।
ववर्ष च रजो भौमं कर्णपार्थसमागमे ।।
न स्म सूर्यः प्रतपति न च वाति समीरणः।
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ।।
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा।
दह्यतामिव वेणूनामासीत्परमदारुणः ।।
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन्।
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ।।
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्।
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ।।
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ।।
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः ।
हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः ।।
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि ।
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम् ।।
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य।
षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम् ।।
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः ।
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम् ।।
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत्।
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार ।।
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः।
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः ।।
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा ।
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ।।
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात्।
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ।।
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च।
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः ।।
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी।
विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ।। 77 ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः ।। 58 ।।