विराटपर्व

अध्यायः ५७

Virata Parva (Sanskrit) · Adhyaya 57
अक्षर का आकार

वैशंपायन उवाच।

अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान्।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ।।

कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ।।

एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ।।

शूरोसि यदि संग्रामे दर्शयस्व सभां विना ।।

यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा।
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ।।

वैशंपायन उवाच।

एवमुक्तस्तथा कर्णः क्रोधादुद्‌वृत्य लोचने।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ।।

नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ।।

सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ।।

पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ।।

वैशंपायन उवाच।

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ।।

महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः।
उवाच स महाराज राजा दुर्योधनस्तदा ।।

न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ।।

एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ।।

किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम्।
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ।।

एतावदुक्त्वा राजा वै ह्यभियानमियेष सः।
तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ।।

वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः ।

अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः।
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ।।

पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन्।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ।।

अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ।।

ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम्।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ।।

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ।।

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ।।

न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम्।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ।।

दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च।
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात्।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ।।

इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके।
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ।।

समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान्।
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि।

कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ।।

तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ।।

अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ।।

सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ।।

ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ।।

निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ।।

चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान्।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ।।

कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ।।

अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसंभूतः कालाग्निरिव संवृतः ।।

यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ।।

तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ।।

रणे शक्तिममित्राणां प्रणीयोपनिनाय सः।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ।।

सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे ।
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ।।

खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ।।

अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ।।

वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ।।

ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे।।

सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ।।

तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ।।

स तद्धि क्षोभयामास विगाह्यारिबलं रथी।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ।।

अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ।।

संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ।।

दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः।
सततं दृश्यते युद्धे सायकासनमण्डलम् ।।

पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ।।

महागजसहस्रस्य युगपन्मृद्गतो वनम्।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ।।

नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ।।

घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ।।

कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ।।

ओषधीनां शिरांसीव कालपक्तिसमन्वयात्।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ।।

चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ।।

अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित्।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ।।

लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ।।

लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ।।

बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ।।

अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ।।

तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान्।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ।।

स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत्।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ।।

दुःसहं दशभिर्बाणैरर्जुनः समविध्यत ।
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ।।

स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ।।

स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ।।

ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः ।
सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ।।

तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे।
हताश्वसूते विरथे ततोऽनीकमभज्यत ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तपञ्चाशोऽध्यायः ।। 57 ।।