विराटपर्व
अध्यायः १५
जनमेजय उवाच।
एवं विराटनगरे वसन्तः सत्यविक्रमाः।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ।। 1 ।।
वैशंपायन उवाच।
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ।। 2 ।।
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ।। 3 ।।
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ।। 4 ।।
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ।। 5 ।।
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ।। 6 ।।
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ।। 7 ।।
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ।। 8 ।।
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ।। 9 ।।
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ।। 10 ।।
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः।
विराटनगरे चेरुः पुनर्गर्भधृता इव ।। 11 ।।
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ।। 12 ।।
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ।। 13 ।।
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।। 14 ।।
महाकाया महावीर्याः कालकेया इवासुराः।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ।। 15 ।।
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ।। 16 ।।
तेषामेको महानासीत्सर्वमल्लानथाह्वयत्।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ।। 17 ।।
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ।। 18 ।।
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ।। 19 ।।
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ।। 20 ।।
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ।। 21 ।।
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ।। 22 ।।
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ।। 23 ।।
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ।। 24 ।।
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ।। 25 ।।
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ।। 26 ।।
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ।। 27 ।।
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे।
सोयं मल्लो वसत्येप राजंस्तव महानसे ।। 28 ।।
वैशंपायन उवाच।
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ।। 29 ।।
भीमसेनो विराटेन आहूतश्चोदितस्तथा।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ।। 30 ।।
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ।। 31 ।।
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ।। 32 ।।
वैशंपायन उवाच।
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ।। 33 ।।
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ।। 34 ।।
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम्।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ।। 35 ।।
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ।। 36 ।।
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ।। 37 ।।
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ।। 38 ।।
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ।। 39 ।।
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ।। 40 ।।
उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ।। 41 ।।
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ।। 42 ।।
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।। 43 ।।
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ।। 44 ।।
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ।। 45 ।।
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ।। 46 ।।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ।। 47 ।।
ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ।। 48 ।।
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान्।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ।। 49 ।।
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ।। 50 ।।
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ।। 51 ।।
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः।। 52 ।।
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्वान्धवैः सह ।। 53 ।।
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः।
वललाय महारङ्गे यथा वैश्रवणस्तथा ।। 54 ।।
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ।। 55 ।।
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ।। 56 ।।
विराटेन प्रदत्तानि चित्राणि विविधानि च।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ।। 57 ।।
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ।। 58 ।।
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ।। 59 ।।
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः।
तोपयामास राजानं नकुलो नृपसत्तमम्।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ।। 60 ।।
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ।। 61 ।।
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ।। 62 ।।
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ।। 63 ।।
।। इति श्रीमन्महाभारते विराटपर्वणि
समयपालनपर्वणि पञ्चदशोऽध्यायः ।। 15 ।।
।। समाप्तं चेदं समयपालनपर्व ।। 2 ।।