विराटपर्व

अध्यायः १४

Virata Parva (Sanskrit) · Adhyaya 14
अक्षर का आकार

वैशंपायन उवाच ।

ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता।
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा ।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ।। 1 ।।

वासश्च परिधायैकं कृष्णा सुमलिनं महत्।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ।। 2 ।।

प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ।। 3 ।।

अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ।। 4 ।।

वैशंपायन उवाच।

तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ।। 5 ।।

विराटस्य तु कैकेयी भार्या परमसंमता।
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ।। 6 ।।

सा समीक्ष्य तथारूपामनाथामेकवाससम्।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ।। 7 ।।

विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा।
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ।। 8 ।।

अपनीय ततः सर्वा आनयध्वमिहैव ताम्।
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा।
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ।। 9 ।।

तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ।। 10 ।।

भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले।
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ।। 11 ।।

तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा।
ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ।। 12 ।।

राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता।
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ।। 13 ।।

कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा।
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ।। 14 ।।

सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ।। 15 ।।

अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ।। 16 ।।

रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव ।
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ।। 17 ।।

सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम्।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ।। 18 ।।

सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम्।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ।। 19 ।।

ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः ।
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ।। 20 ।।

निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम्।
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ।। 21 ।।

न ह्रस्वां नातिमहतीं जातां बहुतृणे वने।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ।। 22 ।।

तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम्।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ।। 23 ।।

रोहिणीमिव ताराणां दीप्तामग्निशिखामिव।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ।। 24 ।।

सुलभामिव नागीनां मृगीणामिव किन्नरीम्।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ।। 25 ।।

तामचिन्त्यतमां लोके इलामिव यशस्विनीम् ।
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ।। 26 ।।

सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् ।
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ।। 27 ।।

का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ।। 28 ।।

गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ।। 29 ।।

शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ।। 30 ।।

कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ।। 31 ।।

अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी ।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ।। 32 ।।

तेनतेनैव संपन्ना काश्मीरीव तुरंगमा।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ।। 33 ।।

देवि देवेषु विख्याता ब्रूहि का त्वमिहागता।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ।। 34 ।।

त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम्।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ।। 35 ।।

प्रवालपुष्पस्तबकैराचिता वनदेवताः।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ।। 36 ।।

अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ।। 37 ।।

न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी।
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ।। 38 ।।

द्रौपद्युवाच।

नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ।। 39 ।।

पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ।। 40 ।।

तत्र द्वादशवर्षाणि वन्यमूलफलाशना।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ।। 41 ।।

जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन्।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ।। 42 ।।

सिन्धुवारकजातीनां रचयाम्यवतंसकान्।
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् ।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ।। 43 ।।

आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम्।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ।। 44 ।।

तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता।
मालिनी चेति मे नाम स्वयं देवी चकार ह।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ।। 45 ।।

न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ।। 46 ।।

योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ।। 47 ।।

साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च।
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ।। 48 ।।

भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी ।
विचरामि महीं दुर्गां यत्र सायंनिवेशना ।। 49 ।।

वीरपत्नी यदा देवी चरमाणेषु भर्तृषु।
साऽहं विवत्सा विधिना गन्धमादनपर्वतात्।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ।। 50 ।।

माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ।। 51 ।।

गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ ।
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ।। 52 ।।

वैशंपायन उवाच।

एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता।
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ।। 53 ।।

न भरेयमहं भद्रे संशयो मम विद्यते।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ।। 54 ।।

साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि।
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ।। 55 ।।

स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि।
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ।। 56 ।।

वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ।। 57 ।।

बिभर्षि परमं रूपमतिमानुषमद्भुतम्।
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः ।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ।। 58 ।।

राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः।
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ।। 59 ।।

यं हि त्वमनवद्याङ्गी नरमायतलोचने।
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ।। 60 ।।

सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम्।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ।। 61 ।।

न शोको न च सन्तापो न क्रोधो नानृतं वदे।
यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ।। 62 ।।

न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत्।
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ।। 63 ।

पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ।। 64 ।।

यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः ।
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ।। 65 ।।

अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ।। 66 ।।

यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः।
तथाविधमहं मन्ये तव सुभ्रु समागमम् ।। 67 ।।

अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन।
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ।। 68 ।।

सैरन्ध्र्युवाच।

नाहं शक्या विराटेन यद्वा चान्येन केनचित्।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ।। 69 ।।

गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः ।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ।। 70 ।।

यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ।। 71 ।।

यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि।
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका ।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ।। 72 ।।

न तस्य त्रिदशा देवा नासुरा न च पन्नगाः।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ।। 73 ।।

सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा ।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ।। 74 ।।

यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ।। 75 ।।

यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ।। 76 ।।

न चाप्यहं चालयितुं शक्या केनचिदङ्गने।
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः ।
एवं निवसमानायां मयि मा ते भयं हि भूत् ।। 77 ।।

वैशंपायन उवाच।

एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत्।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ।। 78 ।।

कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि ।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ।। 79 ।।

एवमाचारसंपन्ना एवं देवपरायणा।
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ।। 80 ।।

देवता इव कल्याणि पूजिता वरवर्णिनी।
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ।। 81 ।।

वैशंपायन उवाच।

सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ।। 82 ।।

याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते।
अवसत्परिचारार्हा सुदुःखं जनमेजय ।। 83 ।।

एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना।
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ।। 84 ।।

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः ।। 14 ।।