उद्योगपर्व
अध्यायः ९३
` वैशंपायन उवाच।
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः ।
इदं होवाच वचनं मधुरं मधुसूदनः ।।'
श्रीभगवानुवाच।
यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः।
सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत् ।।
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते।
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत् ।।
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम्।
श्रृणुष्वागमने हेतुं विदुरावहितो मम ।।
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्।
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्।।
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ।।
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ।।
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन्।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ।।
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया।
कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम् ।।
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ।।
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ।।
आकेशग्रहणान्मित्रमकार्यात्संनिवर्तयन्।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ।।
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्।
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ।।
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ।।
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि।
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ।।
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ।।
न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा ।
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ।।
उभयोः साधयन्नर्थमहामागत इत्युत ।
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ।।
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्।
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ।।
अहापयन्पाण्डवार्थं यथाव-
च्छमं कुरूणां यदि चाचरेयम्।
पुण्यं च मे स्याच्चरितं महात्म-
न्मुच्येरंश्च कुरवो मृत्युपाशात् ।।
अपि वाचं भाषमाणस्य काव्यां
धर्मरामामर्थवतीमहिंस्राम्।
अवेक्षेरन्धार्तराष्ट्राः शमार्थं
मां च प्राप्तं कुरवः पूजयेयुः ।।
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः।
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ।।
वैशंपायन उवाच।
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा।
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्रिनवतितमोऽध्यायः ।।