उद्योगपर्व
अध्यायः ९२
वैशंपायन उवाच।
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्।
नेदं सम्यग्व्यवसितं केशवागमनं तव ।।
अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन ।
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ।।
धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः ।
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन ।।
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता ।
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः ।।
मूढश्वाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः।
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः ।।
एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः ।
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ।।
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे।
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ।।
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।
भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम् ।।
सेनासमुदयं कृत्वा पार्थिवं मधुसूदन।
कृतार्थं मन्यते बाल आत्मानमविचक्षणाः ।।
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् ।
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ।।
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ।।
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् ।
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ।।
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ।।
अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।
तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा ।।
सोऽयं बलस्थो मूढश्चन करिष्यति ते वचः ।
तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव ।।
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।
तव मध्यावतरणं मम कृष्ण न रोचते ।।
दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् ।
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ।।
अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः ।
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ।।
बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।
त्वय्यस्य महती शङ्का न करिष्यति ते वचः ।।
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ।।
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।
समर्थमपि ते वाक्यमसमर्थं भविष्यति ।।
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो
रथाश्वयुक्तस्य बलस्य मूढः।
दुर्योधनो मन्यते बीतभीतिः
कृत्स्ना मयेयं पृथिवी जितेति ।।
आशंसते वै धृतराष्ट्रस्य पुत्रो
महाराज्यमसपत्नं पृथिव्याम्।
तस्मिञ्शमः केवलो नोपलभ्यो
बद्धं सन्तं मन्यते लब्धमर्थम् ।।
पर्यस्तेयं पृथिवी कालपक्वा
दुर्योधनार्थे पाण्डवान्योद्धुकामाः ।
समागताः सर्वयोधाः पृथिव्यां
राजानश्च क्षितिपालैः समेताः ।।
सर्वे चैते कृतवैराः पुरस्ता-
त्त्वया राजानो हृतसाराश्च कृष्ण ।
तवोद्वेगात्संश्रिता धार्तराष्ट्रा-
न्सुसंहताः सह कर्णेन वीराः ।।
न तन्मतं मम दाशार्हवीर ।।
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्।
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ।।
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ।।
या मे प्रीतिः पाण्डवेषु भूयःक सा त्वयि माधव ।
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ।।
या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा।
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनां ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि द्विनवतितमोऽध्यायः ।।