उद्योगपर्व

अध्यायः ८९

Udyoga Parva (Sanskrit) · Adhyaya 89
अक्षर का आकार

वैशंपायन उवाच।

प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्।
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ।।

तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् ।
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ।।

` प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च।
तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम् ।।'

धार्तराष्ट्रास्तमायान्तं प्रत्युञ्जग्मुः स्वलङ्कृताः ।
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः ।।

पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।
यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे ।।

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ।।

कृष्णसंमाननार्थं च नगरं समलङ्कृतम्।
बभूव राजमार्गश्च बहुरत्नसमाचितः ।।

न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ।
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ।।

राजमार्गे नरास्तस्मिन्संस्तुवन्त्यवनिं गताः ।
तस्मिन्काले महाराज हृषीकेशप्रवेशने ।।

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।
प्रचलन्तीव भारेण दृश्यन्तेस्म महीतले ।।

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ।।

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः।
पाण्डुरैः पुण्डरीकाक्षः प्रासादैरुपशोभितम् ।।

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः ।।

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः ।
तहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ।।

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ।।

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्।
सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ।।

तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः ।
यथावयः समीयाय राजभिः सह माधवः ।।

अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम्।
कृपं च सोमदत्तं च समीयाय जनार्दनः ।।

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ।।

अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।
उपजह्नुर्यथान्यायं धृतराष्ट्रपुरोहिताः ।।

कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।
आस्ते सांबन्धिकं कुर्वन्कुरुभिः परिवारितः ।।

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः।।

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।
विदुरावसथं रम्यमुपातिष्ठत माधवः ।।

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ।।

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्।
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ।।

प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः ।
धर्मार्थनित्यस्य सतो गतरोवस्य धीमतः ।।

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि एकोननवतितमोऽध्यायः ।।