उद्योगपर्व

अध्यायः ८८

Udyoga Parva (Sanskrit) · Adhyaya 88
अक्षर का आकार

दुर्योधन उवाच।

यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते।
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ।।

यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ।।

देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ।।

अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते।
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ।।

स हि पूज्यतमो लोके कृष्णः पृथुललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ।।

न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ।।

वैशंपायन उवाच।

तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः।
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ।।

सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः ।
`नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः।'
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ।।

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ।।

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः ।।

धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः।
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ।।

दुर्योधन उवाच।

न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्रीयां यावज्जीवं पितामह ।।

इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् ।
परायणं पाण्डवानां नियच्छामि जनार्दनम् ।।

तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा।
पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति ।।

अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ।।

वैशंपायन उवाच।

तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम्।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ।।

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ।।

दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः।
अपापः कौरवेयेषु स कथं बन्धमर्हति ।।

भीष्म उवाच।

परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः ।
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ।।

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ।।

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ।।

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन ।।

इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टाशीतितमोऽध्यायः ।।