उद्योगपर्व

अध्यायः २५

Udyoga Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

युधिष्ठिर उवाच।

समागताः पाण्डवाः सृञ्जयाश्च
जनार्दनो युयुधानो विराटः।
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं
गावल्गणे ब्रूहि तत्सूतपुत्र ।।

संजय उवाच।

अजातशत्रुं च वृकोदरं च
धनञ्जयं माद्रवतीसुतौ च।
आमन्त्रये वासुदेवं च शौरिं
युयुधानं चेकितानं विराटम् ।।

पञ्चालानामधिपं चैव वृद्धं
धृष्टद्युम्नं पार्षतं याज्ञसेनिम् ।
सर्वे वाचं शृणुतेमां मदीयां
वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ।।

शमं राजा धृतराष्ट्रोऽभिनन्द-
न्नयोजयत्त्वरमाणो रथं मे।
सभ्रातृपुत्रस्वजनस्य राज्ञ-
स्तद्रोचतां पाण्डवानां शमोऽस्तु ।।

सर्वैर्धर्मैः समुपेतास्तु पार्थाः
संस्थानेन मार्दनेवार्जवेन।
जाताः कुले ह्यनृशंसा वदान्या
हीनिषेवाः कर्मणां निश्चयज्ञाः ।।

न युज्यते कर्म युष्मासु हीनं
सत्वं हि वस्तादृशं भीमसेनाः ।
उद्भासते ह्यञ्जनबिन्दुवत्त-
च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः ।।

सर्वक्षयो दृश्यते यत्र कृत्स्नः
पापोदयो भावसंस्थः कुरूणाम्।
कस्तत्र कुर्याञ्जातु कर्म प्रजानन्
पराजयो यत्र समो जयश्च ।।

ते वै धन्या यैः कृतं ज्ञातिकार्यं
ते वै पुत्राः सुहृदो बान्धवाश्च।
उपक्रुष्टं जीवितं सन्त्यजेयु-
र्यतः कुरूणां नियतो वै भवः स्यात् ।।

ते चेत्कुरूननुशिष्याथ पार्था
निर्णीय सर्वान्द्विषतो निगृह्य।
समं वस्तज्जीवितं मृत्युन स्या-
द्यज्जीवध्वं ज्ञातिवधेन साधु ।।

को ह्येव युष्मान्सह केशवेन
सचेकितानान्पार्षतबाहुगुप्तान्।
ससात्यकीन्विषहेत प्रजेतुं
लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान् ।।

को वा कुरून्द्रोणभीष्माभिगुप्ता-
नश्वत्थाम्ना शल्यकृपादिभिश्च।
रणे विजेतुं विषहेत राजन्
राधेयगुप्तान्सह भूमिपालैः ।।

महद्बलं धार्तराष्ट्रस्य राज्ञः
को वै शक्तो हन्तुमक्षीयमाणः ।
सोऽहं जये चैव पराजये च
निःश्रेयसं नाधिगच्छामि किंचित् ।।

कथं हि नीचा इव दौष्कुलेया
निर्धर्मार्थं कर्म कुर्युश्च पार्थाः ।
सोऽहं प्रसाद्य प्रणतो वासुदेवं
पञ्चालानामधिपं चैव वृद्धम् ।।

कृताञ्जलिः शरणं वः प्रपद्ये
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्।
न ह्येवमेवं वचनं वासुदेवो
धनञ्जयो वा जातु किंचिन्न कुर्यात् ।।

प्रणान्दद्याद्याचमानः कुतोऽन्य-
देतद्विद्वन्साधनार्थं ब्रवीमि ।
एतद्राज्ञो भीष्मपुरोगमस्य
मतं यद्वः शान्तिरिहोत्तमा स्यात् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि पञ्चविंशोऽध्यायः ।।