उद्योगपर्व

अध्यायः २४

Udyoga Parva (Sanskrit) · Adhyaya 24
अक्षर का आकार

सञ्जय उवाच।

यथाऽऽत्थ मे पाण्डव तत्तथैव
कुरून्कुरुश्रेष्ठ जनं च पृच्छसि।
अनामयास्तात मनस्विनस्ते
कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ।।

सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे
सन्त्येव पापाः पाण्डव तस्य विद्धि।
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः
कुतो दायांल्लोपयेद्ब्राह्मणानाम् ।।

यद्युष्मासु वर्ततेऽसावधर्म्य-
मद्रुग्धेषु द्रुग्धवत्तन्न साधु।
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो
युष्मान्द्विपन्साधुवृत्तानसाधुः ।।

स चापि जानाति भृशं च तप्यते
शोचत्यन्तः स्थविरोऽजातशत्रो।
शृणोति हि ब्राह्मणानां समेत्य
मित्रद्रोहः पातकेभ्यो यरीयान् ।।

स्मरन्ति तुभ्यं नरदेव सङ्गमे
युद्धे च जिष्णोश्च युधां प्रणेतुः।
समुद्धुष्टे दुन्दुभिशङ्खशब्दे
गदापाणिं भीमसेनं स्मरन्ति ।।

माद्रीसुतौ चापि तथाऽऽजिमध्ये
सर्वा दिशः संपतन्तौ स्मरन्ति।
सेनां वर्षन्तौ शग्वैपरजमं
महारथौ समरे दुष्प्रकम्पौ ।।

समीकुर्याः प्रज्ञयाऽजातशत्रो ।।

न कामार्थं सन्त्यजेयुर्हि धर्मं
पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ।
त्वमेवैतत्प्रज्ञयाऽजातशत्रो
समीकुर्या येन शर्माप्नुयुस्ते ।।

धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च
ये चाप्यन्ते सन्निविष्टा नरेन्द्राः ।
यन्मां ब्रवीद्धृतराष्ट्रो निशाया-
मजातशत्रो वचनं पिता ते ।।

सहामात्यः सहपुत्रश्च राजन्
समेत्य तां वाचमिमां निबोध ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि चतुविंशोऽध्यायः ।।