उद्योगपर्व

अध्यायः १८०

Udyoga Parva (Sanskrit) · Adhyaya 180
अक्षर का आकार

भीष्म उवाच।

आत्मनस्तु ततः सूतो हयानां च विशांपते।
मम चापनयामास शल्यान्कुशलसंमतः ।।

स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः।
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत ।।

दृष्ट्वा भां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्।
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ।।

ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।
धनुःश्रेष्ठं समित्सृज्य सहसावतरं रथात् ।।

अभिवाद्य तथैवाहं रथमारुह्य भारत ।
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ।।

ततोऽहं शरवर्षेण महता समवाकिरम् ।
स च मां शरवर्षेण वर्षन्तं समवाकिरम्।।

संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् ।
संप्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव ।।

ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः ।
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ।।

ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम् ।

अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्।
ततो विदि महान्नादः प्रादुरासीत्समन्ततः ।।

ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्।
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ।।

ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।
वारुणेनैव तद्रामो वारयामास मे विभुः ।।

एवमस्त्राणि दिव्यानि रामस्याहमवारयम् ।
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः ।।

ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः।
उरस्यविध्यत्संक्रुद्धो जामदग्न्यः प्रतापवान् ।।

ततोऽहं भारतश्रेष्ठ संन्यषीदं रथोत्तमे।
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत् ।।

ग्लायन्तं भरश्रेष्ठ रामबाणप्रपीडितम् ।
ततो मामपयातं वै भृशं विद्धमचेतसम् ।।

रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः ।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ।।

ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् ।
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ।।

ततो मामवहत्सूतो हयैः परमशोभितैः ।
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ।।

ततोऽहं राममासाद्य बाणवर्षैश्च कौरव ।
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया ।।

तानापतत एवासौ रामो बाणानजिह्मगान्।
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ।।

ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः ।
रामबाणैर्द्विधा च्छिन्नाः शतशोऽथ सहस्रशः ।।

ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् ।
असृजं जामदग्न्याय रामायाहं जिघांसया ।।

तेन त्वभिहतो गाढं बाणवेगवशं गतः।
मुमोह समरे रामो भूमौ च निपपात ह ।।

ततो हाहाकृतं कसर्वं रामे भूतलमाश्रिते ।
जगद्भारत संविग्नं यथार्कपतने भवेत् ।।

तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः ।
तपोधनास्ते सहसा काश्या च कुरुनन्दन ।।

तत एनं परिष्वज्य शनैराश्वासयंस्तदा ।
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ।।

ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्।
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ।।

स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे ।
येनाहं भृशमुद्विग्रो व्याघूर्णित इव द्रुमः ।।

हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे ।
अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः ।।

ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम् ।
अवासृजं महाबाहो तेन्तराधिष्ठिताः शराः ।।

रामस्य मम चैवाशु व्योमावृत्य समन्ततः।
न स्म सूर्यः प्रतपति शरजालसमावृतः ।।

मातरिश्वा ततस्तस्मिन्मेघरुद्ध इवाभवत् ।
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः ।।

अभिघातप्रभावाच्च पावकः समजायत ।
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ।।

भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ।
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ।।

अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।
रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत् ।।

ततोऽहं तानपि रणे शरैराशीविषोपमैः ।
संछिद्य भूमौ नृपते पातयेयं नगानिव ।।

एवं तदभवद्युद्वं तदा भरतसत्तम ।
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
अशीत्यधिकशततमोऽध्यायः ।।