उद्योगपर्व
अध्यायः १७९
भीष्म उवाच।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ।।
आरोह स्यन्दनं वीर कवचं च महाभुज ।
बधान समरे राम यदि योद्धुं मयेच्छसि ।।
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ।।
सूतश्च मातरिश्वा वै कवचं वेदमातरः ।
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ।।
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः।
शरव्रातेन महता सर्वतः प्रत्यवारयत् ।।
ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम् ।
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने ।।
मनसा विहिते पुण्ये विस्तीर्णे नगरोपभे ।
दिव्याश्वयुजि सन्नद्वे काञ्चनेन विभूषिते ।।
कवचेन महाबाहो सोमार्ककृतलक्ष्मणा।
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ।।
सारथ्यं कृतवांस्तत्र युयुत्सोरकुतव्रणः ।
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ।।
आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ।।
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।
क्षत्रियान्तकरं राममेकमेकः समासदूम् ।।
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।
अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम् ।।
अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ।।
योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा ।
गुरुणा धर्मशीलेन जयमाशास्व मे विभो ।।
राम उवाच।
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ।।
शपेयं त्वां नचेदेवमागच्छेथा विशांपते ।
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ।।
न तु ते जयमाशासे त्वां विजेतुमहं स्थितः ।
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ।।
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम् ।।
ततो युद्धं समभवन्मम तस्य च भारत ।
दिवसान्सुबहून्राजन्परस्परजिगीषया ।।
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्खपत्रिभिः ।
वष्ट्या शतैश्च नवभिः शराणां नतषर्वणाम् ।।
चत्वारस्तेन मे वाहाः सूतश्चैव विशांपते ।
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ।।
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः ।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।।
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि ।
भूयश्च शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ।।
ये ते वेदाः शरीरस्था .... यच्च ते महत् ।
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम् ।।
प्रहरे क्षत्रधर्मस्य यं त्वं राम समाश्रितः ।
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ।।
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम।
एष ते कार्मुक वीर छिनद्मि निशितेषुणा ।।
तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ ।
तेनास्य धनुषः कोटिं छित्वा भूमावपातयम् ।।
तथैव च पृषत्कानां शतानि नतपर्वणाम् ।
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति ।
काये विषक्तास्तु तदा वायुना समुदीरिताः।
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ।।
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ।।
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ।।
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ।।
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।
अकम्पयन्महावेगाः सर्पानलविषोपमाः ।।
तमहं समवष्टभ्य पुनरात्मानमाहवे ।
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ।।
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः ।
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ।।
ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना ।
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत ।।
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।
अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत ।।
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः।
ततो न प्राहरं भूयो जामदग्न्याय भारत ।।
अथावताप्य पृथिवीं पूषा दिवसमंक्षये।
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
एकोनाशीत्यधिकशततमोऽध्यायः ।।