उद्योगपर्व

अध्यायः १६०

Udyoga Parva (Sanskrit) · Adhyaya 160
अक्षर का आकार

सञ्जय उवाच।

हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु।
न्यविशन्त महाराज कौरवेया यथाविधि ।।

तत्र दुर्योधनो राजा निवेस्य बलमोजसा ।
संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ।।

आरक्षस्य विधिं कृत्वा योधानां तत्र भारत ।
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ।।

आनाय्य नृपतिस्तत्र मन्त्रयामास भारत।
तत्र दुर्योधनो राजा कर्णेन सह भारत ।।

सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ ।
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ।।

उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्।
गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः।।

इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ।।

यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत्।
वासुदेवसहायस्य गर्जतः सानुजस्य ते ।।

मध्ये करूणां कौन्तेय तस्य कालोयमागतः ।
यथावत्संप्रतिज्ञातं तत्सर्वं क्रियतामिति ।।

ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम ।।

भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः।
कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः।
य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत् ।।

अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः ।।

श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ ।
प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ।।

यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः।
प्रच्छन्नानि च पापानि बैडालं नाम तद्ब्रतम् ।।

अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् ।
कथितं नारदेनेह पितुर्मम नराधिप ।।

मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु।
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीर कदाचन ।।

स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् ।
करोमि धर्ममित्याह सर्वानेव शरीरिणः ।।

तस्य कालेन महता विस्त्रम्यं जग्मुरण्डजाः।
समेत्य च प्रशंसन्ति मार्जारं तं विशांपते ।।

पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः।
आत्मकार्यं कृतं मेने चार्यायाश्च कृतं फलम् ।।

अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः।
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ।।

कार्येण महता युक्तं दम्भयुक्तेन भारत ।
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ।।

बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् ।
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ।।

उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् ।
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ।।

भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत्।
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ।।

भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः।
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ।।

एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशांपते।
प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत् ।।

द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च।
अवश्यं तु मया कार्यं वचनं भवतां हितम् ।।

युष्माभिरपि कर्तव्यं वचनं मम नित्यशः।
तपसास्मि परिश्रान्तो दृढं नियमामास्थितः ।।

न चापि गमने शक्तिं कांचित्पश्यामि चिन्तयन्।
सोस्मि नेयः सदा ताता नदीकूलमितःपरम् ।।

तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ ।
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ।।

ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन्।
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते।।

मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः।
मार्जारो वर्धते चापि तेजोबलसमन्वितः ।।

ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् ।
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ।।

ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः।
अब्रवीद्वचनं राजन्मूषिकाणां महागणम् ।।

गच्छतां वो नदीतीरं सहितानां विशेषतः।
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ।।

साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा।
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ।।

अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान्।
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ।।

तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः ।
अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम् ।।

न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा।
न मूलफलभक्षस्य विष्ठा भवति लोमशा ।।

अस्य गात्राणि वर्धन्ते गणश्च परिहीयते ।
अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते ।।

एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः।
बिडालोपि स दुष्टात्मा जगामैव यथागतम् ।।

तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः।
चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव ।।

अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते।
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ।।

त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः ।
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ।।

बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम।
देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम् ।।

क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः।
प्रमार्जाश्रु रणे जित्वा संमानं परमावह ।।

पञ्चग्रामा वृता यत्नात्रास्माभिरपवर्जिताः।
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ।।

त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च।
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ।।

यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि।
अयमस्मि स्थितो राजञ्शमायसमराय च ।।

तस्यायमागतः कालः समरस्य नराधिप।
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ।।

किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते।
किंच त्वं क्षत्रियकुले जातः संप्रथितो भुवि ।।

द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ ।
तुल्ययोनौ समबले वासुदेवं समाश्रितः ।।

ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः।
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय ।।

सभामध्ये च यद्रूपं मायया कृतवानसि।
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ।।

इन्द्रजालं च मायां वै कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रमे वहन्ति प्रतिगर्जनाः ।।

वयमप्युत्सहेम द्यां खं च गच्छेम मायया ।
रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु ।।

दर्शयेम च रूपाणि स्वशरीरे बहून्यपि।
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम् ।।

मनसैव हि भूतानि धातैव कुरुते वशे।
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ।।

घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् ।
आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम्।
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना ।।

स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी ।
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव ।।

यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः।
करोति द्विषतां शोकं स जीवति सुजीवितम् ।।

अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः।
अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः ।।

मद्विधो नापि नृपतिस्त्वयि युक्तः कथंचन ।
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः।।

तं च तूबरकं बालं बह्वाशिनमविद्यकम् ।
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम् ।।

विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा।
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम् ।।

प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ।।

यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे।
निहनिष्यामि तरसा तस्य कालोऽयमागतः ।।

त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत ।
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव ।।

शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत।
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर ।।

उलूक नकुलं ब्रूहि वचनान्मम भारत।
युध्द्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम् ।।

युधिष्ठिरानुरागं च द्वेषं च मयि भारत।
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ।।

ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम।
युद्ध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव ।।

विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम ।
न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः ।
तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः ।।

अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ।।

ते यूयं संहता भूत्वा तद्वधार्थं ममापि च।
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ।।

धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम।
एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः ।।

द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् ।
युद्ध्यस्व समुहृत्पापं कुरु कर्म सुदुष्करम् ।।

शिखण्डिनमथो ब्रूहि उलूक वचनान्मम ।
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ।।

गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः ।
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ।।

एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत्।
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य श्रृण्वतः ।।

अस्मान्वा त्वं पराजित्य प्रसाधि पृतिवीमिमाम् ।
अथवा निर्जितोस्माभी रणे वीर शयिष्यसि ।।

राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ।।

यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम् ।
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ।।

पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम्।
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च।
हृदयं कस्य न स्फोटेदैश्वर्याद्धंशितस्य च ।।

कुले जातस्य शूरस्य परिवित्तेष्वगृध्यतः।
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ।।

यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्।
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ।।

अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर।
द्वावर्थौ युद्धकामस्य तस्मात्तत्कुरु पौरुषम् ।।

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तु पुरुषमानिना ।।

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ।।

राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ।।

अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः ।
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ।।

क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्।
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ।।

लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्।
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ।।

असमागम्य भीष्मेण संयुगे किं विकत्थसे।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ।।

एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ।।

द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ।।

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ।।

द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ।।

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्।
युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम् ।।

को ह्यस्ति जीविताकाङ्क्षी पराप्येममरिमर्दनम् ।
पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत् ।।

कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा।
रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन् ।।

किं दर्दुरः कूपशयो यथेमां
न बुध्यसे राजचमूं समेताम्।
दुराधर्षां देवचमूप्रकाशां
गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्।।

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै-
रुदीच्यकाम्भोजशकैः खशैश्च ।
साल्वैः समत्स्यैः कुरुमध्यदेश्यै-
र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ।।

नानाजनौघं युधि संप्रवृद्धं
गाङ्गं यथा वेगमपारणीयम्।
मां च स्थितं नानाबलस्य मध्ये
युयुत्ससे मन्द किमल्पबुद्धे ।।

अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम्।
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ।।

अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात् ।।

यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ।।

जनामि ते वासुदेवं सहायं
जानामि ते गाण्डिवं तालमात्रम् ।
जानाम्यहं त्वादृशो नास्ति योद्धा
जानानस्ते राज्यमेतद्धरामि ।।

न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः।
मनसैवानुकूलानि धातैव कुरुते वशे ।।

त्रयोदशसमा भुक्तं राज्यं विलपतस्तव।
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ।।

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ।।

सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात्।
न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां ।।

सा वो दास्ये समापन्नान्मोचयामास पार्षती।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ।।

अवोचं यत्षण्डतिलानहं वस्तथयमेव तत्।
धृता हि वेमी पार्थेन विराटनगरे तदा ।।

सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ।।

एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ।।

न भयाद्वासुदेवस्य न चापि तव फल्गुन ।
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ।।

न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ।।

वासुदेवसहस्रं वा फाल्गुनानां शतानि वा।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ।।

संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् ।
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ।।

शारद्वतमहामीनं विविंशतिमहोरगम् ।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ।।

भीष्मवेगमपर्यन्तं द्रोणग्राहदुरसदम् ।
कर्णशल्यझषावर्तं काम्भोजबडबामुखम् ।।

दुःशासनौघं शलशल्यमत्स्यं
सुषेणचित्रायुधनागनक्रम्।
जयद्रथाद्रिं पुरुमित्रगाधं
दुर्मर्षणोदं शकुनिप्रपातम् ।।

शश्त्रौघमक्षय्यमभिप्रवृद्धं
यदावगाह्य श्रमनष्टचेताः।
भविष्यसि त्वं हतसर्वबान्धव-
स्तदा मनस्ते परितापमेष्यति ।।

तदा मनस्ते त्रिदिवादिवाशुचे-
र्निवर्तिता पार्थ महीप्रशासनात्।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया
बुभूषितः स्वर्ग इवातपस्विना ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि उलूकदूतागमनपर्वणि
षष्ट्यधिकशततमोऽध्यायः ।।