उद्योगपर्व
अध्यायः १५९
जनमेजय उवाच।
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।
किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ।।
वैशंपायन उवाच।
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ।
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ।।
एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः ।
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ।।
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।
यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान् ।।
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ।।
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।
दुर्योधनं समासाद्य पुनः सा परिवर्तते ।।
एवं गते वै यद्भावि तद्भविष्यति सञ्जय ।
क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः ।।
सञ्जय उवाच।
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि।
न तु दुर्योधने दोषमिममाधातुमर्हसि ।।
शृणुष्वानवशेषेण वदतो मम पार्थिव ।
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देवानेनसा गन्तुमर्हति ।।
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ।।
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ।।
हयानां च गजानां च राज्ञां चामिततेजसाम् ।
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ।।
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्।
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ।।
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ।।
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया।
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते।
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
एकोनषष्ट्यधिकशततमोऽध्यायः ।।
।। समाप्तं च सैन्यनिर्याणपर्व ।।