उद्योगपर्व

अध्यायः १४९

Udyoga Parva (Sanskrit) · Adhyaya 149
अक्षर का आकार

वासुदेव उवाच।

एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः।
दुर्योधनमुवाचेदं राजमध्ये जनाधिप ।।

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ।।

सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।
सोमाद्बभूव षष्ठोऽयं ययातिर्नहुषात्मजः ।।

तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः ।
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ।।

पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः।
शर्मिष्ठया संप्रसूतो दुहित्रा वृषपर्वणः ।।

यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत्।
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ।।

यादवानां कुलकरो बलवान्वीर्यसंमतः ।
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ।।

न चातिष्ठत्पितुः शस्त्रि बलदर्पविमोहितः ।
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ।।

पृथिव्यां चतुरन्तायां यदुदेवाभवद्बली ।
वशे कृत्वा स नृपतीन्न्यवसन्नागसाह्वये ।।

तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।
शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत् ।।

ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः ।
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ।।

यवीयांसं ततः पुरुं पुत्रं स्ववशवर्तिनम् ।
राज्ये निवेशयामास विधेयं नृपसत्तमः ।।

एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।
यवीयांसोपि जायन्ते राज्यं वृद्धोपसेवया ।।

तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ।।

तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ।।

देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् ।
तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ।।

देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ।।

पौरजानपदानां च संमतः साधुसत्कृतः ।
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ।।

वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः ।
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ।।

बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः ।
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ।।

अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।
संभारानभिषेकार्थं कारयामास शास्त्रतः ।।

कारयामास सर्वाणि मङ्गलार्थानि वै विभुः ।
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ।।

सर्वे निवारयामासुर्देवापेरभिषेचनम् ।
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम्।
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ।।

एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत्।
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ।।

हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः।
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ।।

ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः ।
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ।।

बाह्लीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः ।
पितृभ्रातॄन्परित्यज्य प्राप्तवान्परमर्धिमत् ।।

बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः ।
पितर्युपरते राजन्राजा राज्यमकारयत् ।।

तथैवाहं मतिमता परिचिन्त्येह पाण्डुना।
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ।।

पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम ।।

मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि।
अराजपुत्रो ह्यस्वामी परस्वं हर्तुमिच्छसि ।।

युधिष्ठिरो राजपुत्रो महात्मा
न्यायागतं राज्यमिदं च तस्य।
स कौरवस्यास्य कुलस्य भर्ता
प्रशासिता चैव महानुभावः ।।

स सत्यसन्धः स तथाऽप्रमत्तः
शास्त्रे स्थितो बन्धुजनस्य साधुः।
प्रियः प्रजानां सुहृदानुकम्पी
जितेन्द्रियः साधुजनस्य भर्ता ।।

क्षमा तितिक्षा दम आर्जवं च
सत्यव्रतत्वं श्रुतमप्रमादः ।
भूतानुकम्पा ह्यनुशासनं च
युधिष्ठिरे राजगुणाः समस्ताः ।।

अराजपुत्रस्त्वमनार्यवृत्तो
लुब्धः सदा बन्धुषु पापबुद्धिः ।
क्रमागतं राज्यमिदं परेषां
हर्तुं कथं शक्ष्यसि दुर्विनीत ।।

प्रयच्छ राज्यार्धमपेतमोहः
सवाहनं त्व सपरिच्छदं च ।
ततोऽवशेषं तव जीवितस्य
सहानुजस्यैव भवेन्नरेन्द्र ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
एकोनपञ्चाशदधिकशततमोऽध्यायः ।।