उद्योगपर्व

अध्यायः १४८

Udyoga Parva (Sanskrit) · Adhyaya 148
अक्षर का आकार

वासुदेव उवाच।

भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ।।

प्रातीपः शन्तनुस्तात कुलस्यार्थे यथा स्थितः ।
यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ।।

तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः।
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहिताः ।।

ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते।
यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः ।

ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।।
वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः ।।

नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्।
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ।।

ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।
अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम् ।।

विसृज्य धृतराष्ट्राय राज्यं स विदुराय च।
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ।।

कोशसंवनने दाने भृत्यानां चान्ववेक्षणे ।
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ।।

सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः ।
अवैक्षत महातेजा भीष्मः परपुरञ्जयः ।।

सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः ।
अन्वास्यमानः सततं विदुरेण महात्मना ।।

कथं तस्य कुले जातः कुलभेदं व्यवस्यसि।
संभूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप ।।

ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन ।
भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम ।।

नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ।।

दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।
सममाचार्यकं तात तव तेषां च मे सदा ।।

अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ।।

वासुदेव उवाच।

एवमुक्ते महाराज द्रोणेनामिततेजसा।
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ।
पितुर्वदनमन्वीक्ष्य परिवृत्त्य च धर्मवित् ।।

विदुर उवाच।

देवव्रत निबोधेदं वचनं मम भाषतः।
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ।।

तन्मे विलपमानस्य वचनं समुपेक्षसे।
कोयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ।।

यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।
अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः ।
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ।।

एते नश्यन्ति कुरवो दुर्योधनकृतेन वै।
यथा ते न प्रणश्येयुर्महाराज तथा कुरु ।।

मां चैव धृतराष्ट्रं च पूर्वमेव महामते।
चित्रकार इवालेख्यं कृत्वा स्थापितवानसि ।।

प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा।
नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम् ।।

अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ।
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ।।

बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ।
शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम् ।।

प्रसीद राजशार्दूल विनाशो दृश्यते महान् ।
पाण्डवानां कुरूणां च राज्ञाममिततेजसाम् ।।

वासुदेव उवाच।

विररामैवमुक्त्वा तु विदुरो दीनमानसः ।
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ।।

ततोऽस्य राज्ञः सुबलस्य पुत्री
धर्मार्थयुक्तं कुलनाशमीता।
दुर्योधनं पापमतिं नृशंसं
राज्ञां समक्षं सुतमाह कोपात् ।।

ये पार्थिवा राजसभां प्रविष्टा
ब्रह्मर्षयो ये च सभासदोऽन्ये।
श्रृण्वन्तु वक्ष्यामि तवापराधं
पापस्य सामात्यपरिच्छदस्य ।।

राज्यं कुरूणामनुरूपभोज्यं
क्रमागतो नः कुलधर्म एषः।
त्वं पापबुद्धेऽतिनृशंसकर्मन्
राज्यं कुरूणामनयाद्विहंसि ।।

राज्ये स्थितो धृतराष्ट्रो मनीषी
तस्यानुजो विदुरो दीर्घदर्शी ।
एतावतिक्रम्य कथं नृपत्वं
दुर्योधन प्रार्थयसेऽद्य मोहात् ।।

राजा च क्षत्ता च महानुभावौ
भीष्मे स्थिते परवन्तौ भवेताम् ।
अयं तु धर्मज्ञतया महात्मा
न राज्यकामो नृवरो नदीजः ।।

राज्य तु पाण्डोरिदमप्रधृष्यं
तस्याद्य पुत्राः प्रभवन्ति नान्ये।
राज्यं तदेतन्निखिलं पाण्डवानां
पैतामहं पुत्रपौत्रानुगामि ।।

यद्वै ब्रूते कुरुमुख्यो महात्मा
देवव्रतः सत्यसन्धो मनीषी ।
सर्वं तदस्माभिरहत्य कार्यं
राज्यं स्वधर्मान्परिपालयद्भिः ।।

अनुज्ञया चाथ महाव्रतस्य
ब्रूयान्नृपोऽयं विदुरस्तथैव।
कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं
धर्मं पुरस्कृत्य सुदीर्घकालम् ।।

न्यायागतं राज्यमिदं कुरूणां
युधिष्ठिरः शास्तु वै धर्मपुत्रः ।
प्रचोदितो धृतराष्ट्रेण राज्ञा
पुरस्कृतः शान्तनवेन चैव ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
अष्टचत्वारिंशदधिकशततमोऽध्यायः ।।