उद्योगपर्व
अध्यायः १३४
विदुलोवाच।
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि।
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ।।
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात्।
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ।।
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च।
नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ।।
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः।
दौर्बल्यादासते मूढा व्यसतौघपतीक्षिणः ।।
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः ।
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ।।
तैः कृत्वा सह संघातं गिरिदुर्गालयं चर ।
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ।।
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि ।
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ।।
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्।
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति।।
तस्य स्मरन्ती वचनमाशंसे विजयं तव।
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः ।।
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ।।
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय ।
एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः ।।
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्।
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते।।
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् ।
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ।।
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ।।
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् ।
पुरा हृष्टः सुहृद्वर्गो मामपश्यत्सुहृद्गताम् ।।
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम् ।
न तदा जीवितेनार्थो भविता तव सञ्जय ।।
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान्।
अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ।।
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा ।
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ।।
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम।
न ह्यद न च मे भर्ता नेति ब्राह्मणमुक्तवान् ।।
वयमाश्रयणीयाः स्म न श्रोतारः परस्य च।
अन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम् ।।
अपारे भव नः पारमप्लवे भव नः प्लवः ।
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः।।
सर्वे ते शत्रवः शक्या न चेञ्जीवितुमर्हसि ।
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ।।
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम्।
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ।।
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत।
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ।।
नाम विश्राव्य वै शङ्ख्ये शत्रूनाहूय दंशितान्।
सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम् ।।
यदैव लभते वीरः सुयुद्धेन महद्यशः ।
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ।।
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः ।
अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः ।।
राज्यं चाप्युग्रवि भ्रंशं संशयो जीवितस्य वा।
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ।।
स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम् ।
रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु ।।
जहि शत्रून्रणे राजन्स्वधर्मनुपालय ।
मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम् ।।
अस्मदीयैश्च शोचिद्भिर्नदद्भिश्च परैर्वृतम् ।
अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम् ।।
हृप्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा।
मा च सैन्धवकन्यानामवसन्नो वशं गमः ।।
युवा रूपेण संपन्नो विद्ययाभिजनेन च ।
यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ।।
अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत्।
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ।।
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे।
नास्मिञ्जातु कुले जातो गच्छेद्योन्यस्य पृष्ठतः ।
न त्वं परस्यानुचरस्तात जीवितुमर्हसि ।
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ।।
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि।
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् ।।
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् ।
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ।।
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ।।
मातङ्गो मत्त इव च परीयात्स महामनाः ।
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ।।
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः।
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
चतुस्त्रिंशदधिकशततमोऽध्यायः ।