उद्योगपर्व
अध्यायः १३३
कुन्त्युवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विदुलायाश्च संवादं पुत्रस्य च परन्तप ।।
ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि ।
यशस्विनी मन्युमती कुले जाता विभावरी ।।
क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी ।
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ।।
विदुला नाम राजन्या जगर्हे पुत्रमौरसम् ।
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ।।
विदुलोवाच।
अनन्दन मया जात द्विषतां हर्षवर्धन ।
न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि ।।
निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः ।
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ।।
माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः ।
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर ।।
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः।
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ।।
सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः ।
सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति ।।
अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज ।
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः ।।
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।
विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः ।।
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा।
उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः ।।
माऽस्तं गमस्त्वं कृपणो वि श्रूयस्व स्वकर्मणा ।
मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ।।
अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल ।
मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः ।।
मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् ।
मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः ।।
कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् ।
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ।।
अलब्ध्वा यदि वा लब्ध्वा नानुशोचति पण्डितः ।
आनन्तर्यं चारभते न प्राणानां धनायते ।।
उद्भावयस्वं वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।
धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ।।
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता ।
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ।।
शत्रुर्निमञ्जता ग्राह्यो जङ्घायां प्रपतिष्यता।
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन ।।
उद्यम्य धुरमुत्कर्षेदाजानेयकतं स्मरन्।
कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः ।
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि।
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ।।
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ।
दाने तपसि सत्ये च यस्य नोच्चरितं यशः ।।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः।
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा ।।
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ।
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।।
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्।
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ।।
लोकस्य समवज्ञातं निहीनासनवाससम् ।
अहोलाभकरं हीनमल्पजीवनमल्पकम् ।।
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते।
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ।।
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः ।
अवल्गुकारिण सत्सु कुलवंशस्य नाशनम् ।।
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ।
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ।।
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम्।
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ।।
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्।
एतावानेव पुरुषो यदमर्षी यदक्षमी ।।
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ।
संतोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च ।।
अनुत्थानभये चोभे निरीहो नाश्रुते महत्।
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ।।
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ।
परं विषहते यस्मात्तस्मात्पुरुष उच्यते ।।
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति।
शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः ।।
दिष्टभावं गतस्यापि विषये मोदते प्रजा ।
य आत्मनः प्रियमुखे हित्वा मृगयते श्रियम् ।।
अमात्यानामथो हर्षमादधात्यचिरेण सः ।।
पुत्र उवाच।
किं नु मे मामपश्यन्त्याः पृथिव्या अपि सर्वया।
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ।
मातोवाच।
`पैरर्विहन्यमानस्य जीवितेनापि किं फलम्।'
निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।
ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ।।
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम्।
कृपणानामसत्वानां मा वृत्तिमनुवर्तिथाः ।।
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।
पर्यन्यमिव भूतानि देवा इव शतक्रतुम् ।।
यमाजीवन्ति पुरुषं सर्वभूतानि संजय।
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत्।।
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम्।
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ।।
स्वबाहुबलमाश्रित्य योहि जीवति मानवः ।
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ।।
।। इति श्रीमन्माभारते
उद्योगपर्वणि भगवद्यानपर्वणि
त्रयस्त्रिंशदधिकशततमोऽध्यायः ।।