उद्योगपर्व
अध्यायः १३०
वैशंपायन उवाच।
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् ।
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ।।
ततः सभाया निर्गम्य मन्त्रयामास कौरवः।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ।।
` दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीति ।
नोचेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः ।
बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत ।।
वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते ।।
दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ ।
दुर्योधनो धार्तराष्ट्रो निश्वस्य प्रहसन्निव ।।
एकान्तमुपसृत्येह मन्त्रं पुनरमन्त्रयत् ।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ।।'
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च।
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ।।
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः ।
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ।।
वयमेव हृषीकेशं निगृह्णीम बलादिव।
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ।।
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ।।
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च ।
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्।
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ।।
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् ।
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ।।
वैशंपायन उवाच।
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्।
इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः ।।
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः ।
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ।।
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ।
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे ।।
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव ।
आचष्ट तमभिप्रायं केशवाय महात्मने ।।
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ।
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ।।
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् ।
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन ।।
पुरा विकुर्वते मूढाः पापात्मानः समागताः ।
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ।।
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः।
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ।।
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ।
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ।।
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप ।
असक्यमयशस्यं च कर्तुं कर्म समुद्यताः ।।
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ।
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ।।
इमं पुरुषशार्दूलमप्रधृष्यं दुरसदम् ।
आसाद्य नभविष्यन्ति पतङ्गा इव पावकम् ।।
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः ।
सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम् ।।
न त्वयं निन्दितं कर्म कुर्यात्पापं कथंचन ।
न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः ।।
` यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा ।
सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः ।।
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः ।
स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् ।।
पारिजातहरं ह्येनमेकं यदुसुखावहम्।
नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह ।।
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः ।
हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान् ।।
द्वारमासाद्य सौभस्य विधूय गदया गिरिम्।
द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः ।।
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः ।
क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम् ।।
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः ।
अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते ।।
यथा वायोस्तृणाग्रणि वशं यान्ति बलीयसः।
तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः ।।
वैशंपायन उवाच।'
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ।
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः ।।
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ।
एते वा मामहं वैनाननुजानीहि पार्थिव ।।
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे ।
न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन ।।
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान्हास्यन्ति ते सुताः ।
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ।।
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत ।
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ।।
` एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः ।
नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः ।।
अनायासेन पार्थानां पर्वतां च शिवं महत्।
निगृह्य राजन्पार्थेभ्यो दद्यां चेत्सुकृतं भवेत् ।।'
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ।
सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् ।।
एष दुर्योधनो राजन्यथेच्छति तथाऽस्तु तत्।
अहं तु सर्वांस्तनयाननुजानामि ते नृप ।।
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत ।
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ।।
सहमित्रं सहामात्यं ससोदर्यं सहानुगम्।
शक्नुयां यदि पन्थानमवतारयितुं पुनः ।।
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्मभाम् ।
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ।।
अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम् ।।
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्।
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ।।
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ।।
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ।।
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः ।
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ।।
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः।
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ।।
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात् ।।
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत्।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ।।
दुर्योधन निबोधेदं वचनं मम सांप्रतम्।
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः।
शिलावर्षेण महता छादयामास केशवम् ।।
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।
ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात् ।।
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ।।
अनेकयुगवर्षायुर्निहत्य नरकं मृधे ।
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि ।।
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ।
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ।।
अनेन हि हता बाल्ये पूतना शिशुना तदा।
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ।।
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः।
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ।।
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् ।
बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ।।
वरुणो निर्जितो राजा पावकश्चामितौजसा ।
पारिजातं च हरता जितः साक्षाच्छचीपतिः ।।
एकार्णवे च स्वपता निहतौ मधुकैटभौ ।
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः।।
अयं कर्ता न क्रियते कारणं चापि पौरुषे ।
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ।।
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम्।
आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम् ।।
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम्।
पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
त्रिंशदधिकशततमोऽध्यायः ।।