उद्योगपर्व

अध्यायः १२९

Udyoga Parva (Sanskrit) · Adhyaya 129
अक्षर का आकार

वैशंपायन उवाच।

कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः।
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ।।

गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम् ।
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ।।

यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम्।
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ।।

दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ।।
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् ।

शमयेच्चिररात्राय योगक्षेमवदव्ययम् ।
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् ।

आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ।।

धृतराष्ट्र उवाच।

एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ।।

अशिष्टवदमर्यादः पापैः सह दुरात्मवान्।
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ।।

वैशंपायन उवाच।

सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी ।
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ।।

आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् ।
नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ।
आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा ।।

त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः ।
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ।।

स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः ।
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ।।

राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः ।
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्रुते फलम् ।।

कथं हि स्वजने भेदमुपेक्षेत महीपतिः।
भिन्नं हि स्वजनेन त्वां प्रहरिष्यन्ति शत्रवः ।।

या हि शक्या महाराज साम्ना भेदेन वा पुनः ।
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ।।

वैशंपायन उवाच।

शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम्।
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ।।

स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् ।
अभिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः ।।

तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ।।

दुर्योधन निबोधेदं वचनं मम पुत्रक ।
हितं ते सानुबन्धस्य तथाऽऽयत्यांसुखोदयम् ।।

दुर्योधन यदाह त्वां पिता भरतसत्तम ।
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ।।

भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ।।

न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।
अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम ।।

न ह्यवश्येन्द्रियो राज्यमश्रीयाद्दीर्घमन्तरम्।
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ।।

कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ।।

लोकेश्वर प्रभुत्वंहि महदेतद्दुरात्मभिः ।
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ।।

इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ।।

अविधेयानि हीमानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ता हयाः पथि कुसारथिम् ।।

अविजित्य य आत्मानममात्यान्विजिगीषते।
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ।।

आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ।।

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते ।।

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ।।

याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् ।
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ।।

कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
सम्यग्विजेतुं यो वेद स महीमभिजायते ।।

सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ।।

कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते।
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ।।

एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः ।
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ।।

यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः।
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ।।

प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम्।
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ।।

सुहृदामर्थकामानां यो न तिष्ठति शासने।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ।।

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्।
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ।।

भीष्मेण हि महाप्राज्ञ पित्र ते बाह्लिकेन च।
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम ।।

तस्थ चैतत्प्रदानस्य फलमद्यानुपश्यसि ।
यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम् ।।

प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ।
यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम् ।।

अलमर्धं पृथिव्यास्ते महामात्यस्य जीवितुम् ।
सुहृदां वचने तिष्ठन्यशः प्राप्स्यति भारत ।।

श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः ।
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ।।

निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्।
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ।।

अलमङ्ग निकारोऽयं त्रयोदशसमाः कृतः ।
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ।।

न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति ।
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ।।

भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये।
धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ।।

अमर्षवशमापन्नो मा कुरूंस्तात जीघनः ।
एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम् ।।

यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः।
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ।।

समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् ।
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ।।

राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ।।

न लोभादर्थसंपत्तिर्नराणामिह दृश्यते ।
तदलं तात लोभेन प्रशाम्य भरतर्षभ ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
एकोनत्रिंशदधिकशततमोऽध्यायः ।।