उद्योगपर्व
अध्यायः १०५
कण्व उवाच।
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ।।
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ।।
गरुड उवाच।
भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम।
कामकारवरं दत्त्वा पुनश्चलितवानसि ।।
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ।।
वृतश्चैष महानागः स्थापितः समयश्च मे।
अनेन च मया देव भर्तव्यः प्रसवो महान् ।।
एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ।।
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम।
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ।।
`कण्व उवाच।
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा।
त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् ।
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ।।
इन्द्र उवाच।
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि।
दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना ।
श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ।।'
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्।
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ।।
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम।
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ।।
ममापि दक्षस्य सुता जननी कश्यपः पिता।
अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा ।।
असह्यं सर्वभूतानां ममापि विपुलं बलम्।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ।।
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ।।
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्।
वहामि चैवानुजं ते तेन मामवमन्यसे ।।
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ।।
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ।।
अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ।।
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ।।
कण्व उवाच।
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ।।
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ।।
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे।
अहमेवात्मनात्मानं वहामि त्वां च धारये ।।
`न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् ।'
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ।।
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् ।
`आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।'
निपपात स भारार्तो विहलो नष्टचेतनः ।।
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ।।
न त्वेनं पीडयामास बलेन बलवत्तरः।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ।।
व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः।।
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः।
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ।।
भगवँल्लोकसारस्य सदृशेन वपुष्मता।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ।।
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ।।
न हि ज्ञातं बलं देव मया ते परम विभो।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ।।
कण्व उवाच।
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः।
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ।।
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि।
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ।।
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः।
गरुडो बलवान्राजन्वैनतेयो महायशाः ।।
कण्व उवाच।
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे।
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ।।
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ।।
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ।।
तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ।।
प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ।।
वैशंपायन उवाच।
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः।
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ।।
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ।।
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ।।
` ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् ।
यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ।।'
।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चाधिकशततमोऽध्यायः ।।