उद्योगपर्व

अध्यायः १०४

Udyoga Parva (Sanskrit) · Adhyaya 104
अक्षर का आकार

कण्व उवाच।

मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः।
अब्रवीद्देवराजं तमार्यकं कुरुनन्दन।।

सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्।
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ।।

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।
अल्पान्तरप्रभावश्च वासवेन रणे रणे ।।

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।
देवासुरेषु युद्धेषु मनसैव नियच्छति ।।

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ।।

अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ।।

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते।
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ।।

यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् ।
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ।।

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ।।

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ।।

पितृहीनमपि ह्येनं गुणतो वरयामहे।
बहुमानाच्च भवतस्तथैवैरावतस्य च ।।

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ।
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।
मातलिस्तस्य संमानं कर्तुमर्हो भवानपि ।।

कण्व उवाच।

स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः ।
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ।।

आर्यक उवाच।

मन्ये नैतद्बहुमतं महर्षे वचनं तव।
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्।
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ।।

अस्य देहकरस्तात मम पुत्रो महाद्युते।
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ।।

पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ।।

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्।
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ।।

कण्व उवाच।

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया।
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ।।

सोऽयं मया च सहितो नारदेन च पन्नगः।
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ।।

शेषेणैवास्य कार्येण प्रज्ञास्वाम्यहमायुषः ।
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ।।

सुमुखश्च मया सार्धं देवेशमिगच्छतु।
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ।।

`कण्व उवाच।

आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत।'
ततस्ते सुमुखं गृह्य सर्व एव महौजसः।
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ।।

सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ।।

वैशंपायन उवाच।

ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम्।
अमृतं दीयतामस्मै क्रियताममरैः समः ।।

मातलिर्नारदश्चैव सुमुखश्चैव वासव।
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ।।

पुरन्दरोऽथ संचिन्त्य वैनतेयपराक्रमम् ।
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ।।

विष्णुरुवाच।

ईशस्त्वं सर्वलोकानां चराणामचराश्च ये।
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ।।

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्।
न त्वेनममृतप्राशं चकार बलवृत्रहा ।।

लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह।
कृतदारो यथाकामं जगाम च गृहान्प्रति ।।

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि चतुरधिकशततमोऽध्यायः ।।