स्वर्गारोहणपर्व

अध्यायः ३

Swargarohanika Parva (Sanskrit) · Adhyaya 3
अक्षर का आकार

वैशम्पायन उवाच।

स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिष्ठिरे।
आजग्मुस्तत्र कौरव्यं देवाः शक्रपुरोगमाः।।

स च विग्रहवान्धर्मो राजानं संपरीक्ष्य तम्।
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः।।

तेषु भासुरदेहेषु पुण्याभिजनकर्मसु।
समागतेषु देवेषु व्यगमत्तत्तमो नृप।।

नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम्।
नदी वैतरणी चैव कूटशाल्मलिना सह।।

लोहकुंभ्यः शिलाश्चैव नादृश्यन्त भयानकाः।
विकृतानि शरीराणि यानि तत्र समन्ततः।।

ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान्।।

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः।
ववौ देवसमीपस्थः शीतलोऽतीव भारत।।

मरुतः सह शक्रेण वसवश्चाश्विनौ सह।
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपिदिवौकसः।

सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः।
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्।।

ततः शक्रः सुरपतिः श्रिया परमया युतः।
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः।।

युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया।
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो।।

सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव।
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता।।

न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम।
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः।।

शुभानामनशुभानां च द्वौ राशी पुरुषर्षभ।
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः।।

पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः।
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते।।

`भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत।'
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप।।

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति।
व्याजेनैव ततो राजन्दर्शितो नरकस्तव।।

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा।
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः।
आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात्।।

स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे।
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ।।

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः।
स गतः परमां सिद्धिं यदर्थं परितप्यसे।।

तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो।
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ।।

भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान्।
स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः।।

कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव।
विहारस्व मया सार्धं गतशोको निरामयः।।

कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम्।
दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः।।

अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि।
उपसेवन्तु कल्याणं विरजंबरभूषणाः।।

राजसूयजितां लोकानश्वमेधभिनिर्मितान्।
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम्।।

उपर्युपरि राज्ञां हि तव लोकाः युधिष्टिर।
हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि।।

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः।
दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि।।

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी।
आकाशगङ्गा राजेन्र्र तत्राप्लुत्य गमिष्यसि।।

अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति।
गतशोको निरायासो मुक्तवैरो भविष्यसि।।

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्।
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः।।

भोभो राजन्महाप्राज्ञ प्रीतोस्मि तव पुत्रक।
मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च।।

एषा तृतीया जिज्ञासा तव राजन्कृता मया।
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः।।

पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया।
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि।।

सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत।
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः।।

इदं तृतीयं भ्रातॄणामर्थे यतस्थातुमिच्छसि।
विशुद्धोसि महाभाग सुखी विगतकल्मषः।।

न च ते भ्रातरः पार्थ नरकार्हा विशांपतै।
मायैषा देवराजेन महेन्द्रेणि प्रयोजिता।।

अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः।
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्।।

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ।
कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप।।

न कृष्णा राजपुत्री च नरकार्हा कथञ्चन।
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान्।।

वैशम्पायन उवाच।

एवमुक्तः स राजर्षिस्तव पूर्वपितामहः।
जगाम सह धर्मेणि सवैश्च त्रिदिवालयैः।।

गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम्।
अवगाह्य ततो राजा तनुं तत्याज मानुषीम्।।

ततो विव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः।
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः।।

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः।
धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः।।

यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः।
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे।।

।। इति श्रीमन्महाभारते
स्वर्गारोहणपर्वणि तृतीयोऽध्यायः।। 3 ।।