स्वर्गारोहणपर्व

अध्यायः २

Swargarohanika Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

युधिष्ठिर उवाच।

नेह पश्यामि विबुधा राधेयममितौजसम्।
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ।।

जुहुवुर्ये शरीराणि रणवह्नौ महारथाः।
राजानो राजपुत्राश्च ये मदर्थे हता रणे।।

क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः।
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः।।

यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः।
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः।।

कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः।
न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा।।

मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि।
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै।।

इदं च परितप्यामि पुनःपुनरहं सुराः।
यन्मातुः सदृशौ पादौ तस्याहममितात्मनः।।

दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्।
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे।।

तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्।
अविज्ञातो मया योसौ घातितः सव्यसाचिना।।

भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम।
अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ।।

द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्।
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः।।

किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः।
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम।।

देवा ऊचुः।

यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम्।
प्रिये हि तव वर्तामो देवराजस्य शासनात्।।

वैशम्पायन उवाच।

इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्।
युधिष्ठिरस्य सुहृदो दर्शयेतदि परंतप।।

ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः।
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः।।

अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः।
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः।।

तमसा संवृतं घोरं केशशैवलशाद्वलम्।
युक्तं पापकृतां गन्धैर्मासशोणितकर्दमम्।।

दंशोत्पातकभल्लूकमक्षिकामशकावृतम्।
इतश्चेतश्च कुणपैः समन्तात्परिवारितम्।।

अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्।
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम्।।

अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम्।
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम्।।

मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः।
निकृत्तोदरपदैश्च तत्रतत्र प्रवेशितैः।।

स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्।
जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन्।।

ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्।
असिपत्रवनं चैव निशितं क्षुरसंवृतम्।।

करम्भवालुकास्तप्ता आयसीश्चि शिलाः पृथक्।
लोहकुंभीश्च तैलस्य क्वाथ्यमानाः समन्ततः।।

कूटशाल्मलिकं तापि दुःस्पर्शं तीक्ष्णकण्टकम्।
ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम्।।

स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह।
कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम्।।

क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि।
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्।।

स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्।
देवदूतोऽब्रवीचैनमेतावद्गमनं तव।।

निवर्तितव्यो हि मया तताऽस्म्युक्तो दिवौकसैः।
यदि श्रान्तोसि राजेन्द्रि त्वमथागन्तुमर्हसि।।

युधिष्ठिरस्तु निर्विण्णस्तेनि गन्धेन मूर्छितः।
निवर्तने धृतमनाः पर्यावर्तत भारत।।

सं संनिवृत्तो धर्मात्मा दुःखशोकसमाहतः।
शुश्राव तत्र वदतां दीना वाचः समन्ततः।।

भोभो धर्मज राजर्षे पुण्याभिजन पाण्वन।
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम्।।

आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः।
तव गन्धानुगस्तात येनास्मान्सुखमागमत्।।

ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ।
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम।।

संतिष्ठस्व महाबाहो मुहूर्तमिह भारत।
त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते।।

एवं बहुविधा वाचः कृपणा वेदनावताम्।
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप।।

तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम्।
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः।।

स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः।
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः।।

अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः।
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ।।

इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे।
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो।।

नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत।
द्रौप्दी द्रौपदेयाश्चि इत्येवं ते विचुक्रुशुः।।

ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप।
ततो विममृशे राजा किंत्विदं दैवकारितम्।।

किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः।
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया।।

य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे।
नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम्।।

किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः।
तथा श्रिया युतः पापैः सहसर्वैः पदानुगैः।।

महेन्द्रि इव लक्ष्मीवानास्ते परमपूजितः।
कस्येदानीं विकारोऽयं य इमे नरकं गताः।।

सर्वे धर्मविदः शूराः सत्यागमपरायणाः।
क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः।।

किंनु सुप्तोस्मि जागर्मि चेतयामि न चेतये।
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः।।

एवं बहुविधं राजा विममर्श युधिष्ठिरः।
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः।।

क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः।
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः।।

स तीव्रशोकसंतप्तो देवदूतमुवाच ह।
गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम्।।

न ह्यहं तत्र यास्यामि स्थितोस्मीति निवेद्यताम्।
मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे।।

इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता।
जगामि तत्र यत्रास्ते देवराजः शतक्रतुःठ।।

निवेदयामास च तद्धर्मराजचिकीर्षितम्।
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप।।

।। इति श्रीमन्महाभारते
स्वर्गारोहणपर्वणि द्वितीयोऽध्यायः।। 2 ।।