स्त्रीपर्व
अध्यायः २७
वैशम्पायन उवाच।
ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम्।
ह्लादिनीं च प्रसन्नां च महारूपां महावनाम्।।
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च।
`कवचानि विचित्राणि गङ्गामवजगाहिरे'।।
ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च।
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः।।
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः।
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम्।।
उदके क्रियमाणे तु वीराणां विरपत्निभिः।
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च।।
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम्।
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत।।
ततः कुन्ती महाराज रुदन्ती शोककर्शिता।
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत्।।
यः स वीरो महेष्वासो रथयूथपयूथपः।
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः।।
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः।
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः।।
प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान्।
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत।।
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन।
यो वृणीत यशः शूरः प्राणैरपि सदा भुवि।।
कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः।
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः।।
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत।
कुण्डली कवची शूरो दिवाकरसमप्रभः।।
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्।
कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन्।।
ततः स पुरुषव्याघ्रः रुन्तीपुत्रो युधिष्ठिरः।
उवाच मातरं वीरो निःश्वसन्निव पन्नगः।।
यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः।
तलशब्दप्रणुदितो महारथमहाग्रहः।।
यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात्।
कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत्।
`कुण्डली कवची शूरो दिवाकरसमप्रभः।।
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्।
तमग्निमिव वस्त्रेण कथं छादितवत्यसि।।
यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत्।
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि।।
तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम्।
उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः।।
भूमिपानां च सर्वेषां बलं बलवतां वरः।
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी।।
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः।
असूत तं भवत्यग्रे कथमद्भुतविक्रमम्।।
अहो भवत्या मन्त्रस्य गूहनेन वयं हताः।
निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः।।
अभिमन्योर्विनाशेन द्रौपदेयवधेन च।
पाञ्चालानां विनाशेन, कुरूणां घातनादपि।।
ततः शतगुणं दुःखमिदमापतितं महत्।
कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः।।
नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम्।
न चेदं वैशसं घोरकं कौरवान्तकरं भवेत्।।
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः।
व्यरुदच्छनकैः राजंश्चकारास्योदकं प्रभुः।।
ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः।
अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि।।
तत आनाययामास कर्णस्य सपरिच्छदाः।
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः।।
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्।
`सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम्।।
स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः।
समुत्ततार गङ्गाया भार्यया सह भारत।।'
[पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः।
अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति।।
इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः।
भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान्।।]
।। इति श्रीमन्महाभारते शतसाहस्रिकायां
संहितायां वैयासिक्यां स्त्रीपर्वणि श्राद्धपर्वणि सप्तविंशोऽध्यायः।। 27 ।।
अतः परंशान्तिपर्व भविष्यति तस्यायमाद्यः श्लोकः।
वैशम्पायन उवाच।
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः।
विदुरे धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः।।