स्त्रीपर्व
अध्यायः २६
श्रीभगवानुवाच।
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः।
तवैव ह्यपराधेन कुरवो निधनं गताः।।
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे।।
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम्।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि।।
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते।।
तपोर्थीयं ब्राह्मणी धत्त गर्भं
गौर्वोढारं धावितारं तुरङ्गी।
शूद्रा दासं पशुपालं च वैश्या
वधार्थीयं त्वद्विधा राजपुत्री।।
वैशंपायन उवाच।
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना।।
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम्।।
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव।
हतानां यदि जानीषे परिमाणं वदस्वं मे।।
युधिष्ठिर उवाच।
दशायुतसहस्राणि सहस्राणि च विंशतिः।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः।।
आलक्षाणां च वीराणां सहस्राणि चतुर्दश।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत।।
धृतराष्ट्र उवाच।
युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः।।
युधिष्ठिर उवाच।
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः।।
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः।।
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति।।
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः।
हीनिषेवा महात्मानः परानभिमुखा रणे।।
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः।।
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम्।।
धृतराष्ट्र उवाच।
केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत्।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया।।
युधिष्ठिर उवाच।
निदेशाद्भवतः पूर्वं वने विचरता मया।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः।।
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा।।
धृतराष्ट्र उवाच।
ये त्वनाथा जनास्तात नाथवन्तश्च पाण्डव।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्।।
युधिष्ठिर उवाच।
न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम्।।
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः।।
वैशम्पायन उवाच।
एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्।।
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः।।
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति।।
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा।।
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च।।
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान्।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च।।
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा।।
दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा।।
शल्यं शलं च राजानं भूरिश्रवसमेव च।।
जयद्रथं च राजानमभिमन्युं च भारत।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्।।
बृहद्वलं सोमदत्तं सृञ्जयं च महारथम्।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा।।
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च।।
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्।
अचलं वृषकं चैव भगदत्ते च पार्थिवम्।।
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्।।
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम्।।
एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्।
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम्।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः।।
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः।
कश्मलं सर्वभूतानां निशायां समपद्यत।।
हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः।।
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः।।
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः।
दाहयामास तान्सर्वान्विदुरो राजशासनात्।।
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
श्राद्धपर्वणि षड्विंशोऽध्यायः।। 26 ।।