शांतिपर्व

अध्यायः ८२

Santi Parva (Sanskrit) · Adhyaya 82
अक्षर का आकार

भीष्म उवाच।

एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत।
यः कश्चिद्वेदयेदर्थं राज्ञा रक्ष्यः स मानवः।।

ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः।
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर।।

श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत्।
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत।।

राजकोशस्य गोप्तारं राजकोशविलोपकाः।
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह।।

कोसलानामाधिपत्यं संप्राप्तं क्षेमदर्शिनम्।
मुनिः कालकवृक्षीय आजगोमेति नः श्रुतम्।।

स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः।
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः।।

अधीये वायसीं विद्यां शंसन्ति मम वायसाः।
अनागतमतीतं च यच्च संप्रति वर्तते।।

इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह।
सर्वेषां राजयुक्तानां दुष्कृतं परिदृष्टवान्।।

स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः।
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः।।

ततः स काकमादाय राजानं द्रष्टुमागमत्।
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः।।

स स्म कौसल्यमागम्य राजामात्यमलंकृतम्।
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्।।

असौ चासौ च जानीते राजकेशस्त्वया हृतः।
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्।।

तथाऽन्यानपि स प्राह राजकोशहरांस्तदा।
न चास्य वचनं किंचिदनृतं श्रूयते क्वचित्।।

तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह।
तमतिक्रम्य सुप्तं तु निशि काकमपोथयन्।।

वायसं तु विनिर्भिन्नं दृष्ट्वा वाणेन पञ्जरे।
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्।।

राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्।
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम्।।

मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मनाऽऽगतः।
ह्रियन्ते हि महार्थाश्च पुरुषे विक्रमत्यपि।।

संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः।
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात्।।

तथाविधस्य सुहृदा क्षन्तव्यं संविजानता।
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता।।

तं राजा प्रत्युवाचेदं यत्किंचिन्मां भवान्वदेत्।
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्।।

ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि।
करिष्यामि हि ते वाक्यं यन्मां विप्र प्रवक्ष्यसि।।

मुनिरुवाच।

विद्वान्नयानपायांश्च भयाख्यातॄन्भयानि च।
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागतः।।

प्रागेवोक्तं तु दोषोऽयमाचार्यैर्नृपसेवनम्।
अगतेः कुगतिर्ह्येषा या राज्ञा सहजीविका।।

आशीविषैश्च तस्याहुः संगमं यस्य राजभिः।
बहुमित्रांश्च राजानो बह्वभित्रास्तथैव च।।

तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम्।
तथाऽस्य राजतो राजन्मुहुर्तादागतं भयम्।।

नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ।
न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता।।

प्रमादात्स्खलते बुद्धिः स्खलतो नास्ति जीवितम्।
अग्निं दीप्तमिवासीदेद्राजानप्नुपशिक्षितः।।

आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्।
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः।।

दुर्व्याहृताच्छङ्कमानो दुःस्थिताद्दुरनुष्ठितात्।
दुरासदाद्दुर्वृजिनादिङ्गिताद्ध्यायितादपि।।

देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः।
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत्।।

इति राजन्यमः प्राह वर्तते च तथैव तत्।
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः।।

ददात्यत्मद्विधोऽऽमात्यो बुद्धिसाहाय्यमापदि।
वायसस्त्वेष मे राजन्नन्तकायाभिसंहितः।।

न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः।
हिताहितांस्तु बुद्ध्येथा मापरोक्षमतिर्भव।।

ये त्वादानपरा एव वसन्ति भवतो गृहे।
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्।।

यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम्।
आन्तरैराभेसंधाय राजन्सिद्ध्यति नान्यथा।।

तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम्।
तैर्हि मे संधितो बाणः काके निपतितः प्रभो।।

छझना मम काकश्च गमितो यमसादनम्।
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेन चक्षुषा।।

बहुनक्रझषग्राहां तिमिंगिलगणैर्युताम्।
काकेन वालिशेनेमामतार्षमहमापगाम्।।

स्थाण्वश्मकण्टकवर्तीं सिंह व्याघ्रसमाकुलाम्।
दुरासदां दुष्प्रसहां गुहां हैमवतीमिव।

अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते।
राजदुर्गावतरणे नोपायं पण्डिता विदुः।।

गहनं भवतो राज्यमन्धकारं तमोन्वितम्।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया।।

अतो नायं शुभो वासस्तुल्ये सदसती इह।
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः।।

न्यायतो दुष्कृते घातः सुकृते न कथनम्।
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्वुधः।।

सीता नाम नदी राजन्प्लवो यस्यां निमज्जति।
तयोपमामिमां मन्ये वागुरां सर्वधातिनीम्।।

मधुप्रपातो हि भवान्भोजनं विषसंयुतम्।
असतामिव ते भावो वर्तते न सतामिव।।

आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव।।

दुर्गतीर्था बृहत्कूला कावेरी चोरसंयुता।
नदी मधुरपानीया यथा राजंस्तथा भवान्।
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि।।

यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान्।
ततस्तं संवृणोत्येव तमतीत्य च वर्धते।।

तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः।
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय।।

त्वया चैव कृता राजन्भवता परिपालिताः।
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम्।।

उषितं शङ्कमानेन प्रमादं परिरक्षता।
अन्तः सर्प इवागारे वीरपत्न्या इवालये।
शीलं जिज्ञासमानेन राज्ञः साहसजीविनः।।

कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः।
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः।।

विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम।
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम्।।

अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्।
भवतोऽर्थकृदित्येवं मयि ते दोषमादधन्।
विद्यते कारणं नान्यदिति मे नात्र संशयः।।

न हि तेषामहं द्रोग्धा तत्तेषां द्रोहवद्गतम्।
अरेर्हि दुर्हृदाद्भेयं भग्नपृष्ठादिवोरगात्।।

राजोवाच।

भूयसा परिहारेण सत्कारेण च भूयसा।
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम।।

ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे।
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम्।।

यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम्।
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम्।।

मुनिरुवाच।

अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु।
ततः कारणमाज्ञाय पुरुषंपुरुषं जहि।
एकदोषा हि बहवो मृद्गीयुरपि कण्टकान्।।

`अर्थे सर्वं जगद्वद्धमर्थेनैव निबध्यते।
अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय।।

एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय।
स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति।।

सामपूर्वं च केषांचिद्भेदेन च परस्परम्।
वैरं कारय भूपाल पश्चाद्दण्डं प्रचोदय।।

बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान्।
अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय।।'

मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते।।

वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः।
स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः।।

राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम्।
मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः।
पितुः सखा च भवतः संमतः सत्यसंगरः।।

व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते।
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया।।

स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रो दिति।।

उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया।
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि।।

भीष्म उवाच।

ततो राजकुले नान्दी संजज्ञे भूयसा पुनः।
पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे।।

एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने।
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः।।

हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम्।
तथा च कृतवान्राजा यथोक्तं तेन भारत।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्व्यशीतितमोऽध्यायः।। 82।।