शांतिपर्व
अध्यायः ८१
युधिष्ठिर उवाच।
एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं वासुदेवस्य महर्षेर्नारदस्य च।।
वासुदेव उवाच।
नासुहृत्परर्म मन्त्रं नारदार्हति वेदितुम्।
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान्।।
स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद।
कृत्स्नां बुद्धिं च ते प्रेक्ष्य संपृच्छे त्रिदिवङ्गम।।
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम्।
अर्धंभोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे।।
अरणीमग्निकामो वा मथ्नाति दहृयं मम।
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा।।
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद।।
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः।
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः।।
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत्।
द्वयोरेनं प्रचरतोर्वृणोम्येकरतं न च।।
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः।।
सोऽहं कित्नवमातेव द्वयोरपि महामुने।
नैकस्य जयमाशंसे द्वितीयस्य पराजयम्।।
ममैवं क्लिश्यमानस्य नारदोभयदर्शनात्।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा।।
नारद उवाच।
आपदो द्विविधाः कृष्ण बाह्याश्चाम्यन्तराश्च ह।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः।।
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा।
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयः।।
अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्।।
कृतमूलमिदानीं तद्राजशब्दसहायवत्।
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम्।।
बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथंचन।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः।।
तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत्।।
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा।
जिह्वामुद्धर सर्वेषां परिमृदज्यानुमृज्य च।।
वासुदेव उवाच।
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च।।
नारद उवाच।
शक्त्याऽन्नदानं सततं तितिक्षाऽऽर्जवमार्दवम्।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्।।
ज्ञातीनां वक्तुकामानां कटुकानि लधूनि च।
गिरा त्वं हृदयं वाचं शमयस्य मनांसि च।।
नामहापुरुषः कश्चिन्नानात्मा नासहायवान्।
महतीं धुरमादाय समुद्यम्योरसा वहेत्।।
सर्व एव गुरुं भारमनङ्वान्वहते समे।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम्।।
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव।
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु।।
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्।
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते।।
धन्यं यशस्यमायुष्वं स्वपक्षोद्भावनं सदा।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु।।
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो।
षाङ्गुण्यस्य विधानेन यात्रा यानविधौ तथा।।
यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः।
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये।।
उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव।
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम्।।
त्वामासाद्य यदुश्रेष्ठमेधन्ते वादवाः सुखम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकाशीतितमोऽध्यायः।। 81।।