शांतिपर्व
अध्यायः ७२
युधिष्ठिर उवाच।
`कीदृशो ब्राह्मणो राजा कार्याकार्यविचारणे।
क्षमः कर्तुं समर्थो वा तन्मे ब्रूहि पितामह।।'
भीष्म उवाच।
य एव तु सतो रक्षेदसतश्च निवर्तयेत्।
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पुरूरवस ऐलस्य संवादं मातरिश्वना।।
पुरूरवा उवाच।
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः।
कस्माच्च भवति श्रेयांस्तन्मे व्याख्यातुमर्हसि।।
मातरिश्वोवाच।
ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम।
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च।।
वर्णानां परिचर्यार्यं त्रयाणां भरतर्षभ।
वर्णश्चतुर्थः पश्चात्तु पभ्द्यां शूद्रो विनिर्मितः।।
ब्राह्मणो जायमानो हि पृथिव्यामनुजायते।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये।।
`सर्वस्वं ब्राह्मणस्येदं यत्किंचिदिह दृश्यते।
धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज।।'
ततः पृथिव्या यन्तारं क्षत्रियं दण्डधारणे।
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये।।
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्।
शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम्।।
ऐल उवाच।
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्।
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे।।
वायुरुवाच।
विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम्।
`धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम्।।
मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते। '
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः।।
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च।
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः।।
पत्यभावे यथैव स्त्री देवरं कुरुते पतिम्।
`आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्।'
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः।।
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि।
यत्किंचिज्जयसे भूमिं ब्राह्मणाय निवेदय।।
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने।
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्।।
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया।
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान्।।
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्।
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्।।
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः।
तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति।।
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः।
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः।।
`ब्राह्मणं च सविद्वांसं राजशास्त्रविपश्चितम्।'
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः।।
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः।
चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति।।
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः।
यज्ञमेवोपजीवन्ति नास्ति यष्टा ह्यराजके।।
इतो दत्तेन जीवन्ति देवताः पितरस्तथा।
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः।।
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति।
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति।
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः।।
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम्।
अभयस्य हि यो दाता तस्यैव सुमहत्फलम्।।
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते।
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च।
राजा बिभर्ति भूतानि राज्ञा सर्वमिदं धृतम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्विसप्ततितमोऽध्यायः।। 72।।