शांतिपर्व
अध्यायः ७१
युधिष्ठिर उवाच।
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
समासेनैव ते राजन्धर्मान्वक्ष्यामि शाश्वतान्।
विस्तरेणैव धर्माणां न जात्वन्तमवाप्नुयात्।।
धर्मनिष्ठाञ्श्रुतवतो देवव्रतसमाहितान्।
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान्।।
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च।
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः।।
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च।
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः।।
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत।
धर्मार्थौ प्रतिगृह्णीयात्कामक्रोधौ च वर्जयेत्।।
कामक्रोधौ पुरस्कृत्य योऽर्थं राजाऽनुतिष्ठति।
न स धर्मं न चाप्यर्थं प्रतिगृह्णाति बालिशः।।
मा स्म लुब्धांश्च मूर्खांश्च कामार्थे च प्रयूयुजः।
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत्।।
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः।
प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः।।
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्।
शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्।।
दापयित्वा करं धर्म्यं राष्ट्रं नीत्या यथाविधि।
तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः।।
गोपायितारं दातारं धर्मनित्यमतन्द्रितम्।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः।।
तस्माद्धर्मेण लाभेन लिप्सेथास्त्वं धनागमम्।
धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत्।।
अपशास्त्रधनो राजा संचयं नाधिगच्छति।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति।।
अर्थमूलोऽपि हिंसां च कुरुते स्वयमात्मनः।
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः।।
ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत्पयः।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते।।
`यवसोदकमादाय सान्त्वेन विनयेन च।'
यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम्।।
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्।
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर।।
दोग्ध्री धान्यं हिरण्यं च मही राजा सुरक्षिता।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः।।
मालाकारोपमो राजन्भव माऽऽङ्गारिकोपमः।
तथायुक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पालयन्।।
परचक्राभियानेन यदि ते स्याद्धनक्षयः।
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्।।
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः।
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत।।
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः।
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम्।।
एवं धर्म्येण वृत्तेन प्रजास्त्वं परिपालय।
स्वर्ग्यं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन।।
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव।
युधिष्ठिर यथायुक्तो नाधिबन्धेन योक्ष्यसे।।
एष एव परो धर्मो यद्राजा रक्षति प्रजाः।
भूतानां हि यदा धर्मो रक्षणं परमा दया।।
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः।
यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्।।
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः।
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति।।
यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन्।
दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि।।
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्।।
एवं धर्मं प्रयत्नेन कौन्तेय परिपालय।
ततः पुण्यफलं लब्ध्वा नानुबन्धेन योक्ष्यसे।।
स्वर्गलोके सुमहतीं श्रियं प्राप्स्यसि पाण्डव।
असंभवश्च धर्माणामीदृशानामराजसु।।
तस्माद्राजैव नान्योऽस्ति यो धर्मफलमाप्नुयात्।
स राज्यं धृतिमान्प्राप्य धर्मेण परिपालय।
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकसप्ततितमोऽध्यायः।। 71।।